Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 2.6.29
ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिता: ॥ २९ ॥
ŚB 2.6.30
ततश्च मनव: काले ईजिरे ऋषयोऽपरे । पितरो विबुधा दैत्या मनुष्या: क्रतुभिर्विभुम् ॥ ३० ॥
ŚB 2.6.31
नारायणे भगवति तदिदं विश्वमाहितम् । गृहीतमायोरुगुण: सर्गादावगुण: स्वत: ॥ ३१ ॥
ŚB 2.6.32
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वश: । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३२ ॥
ŚB 2.6.33
इति तेऽभिहितं तात यथेदमनुपृच्छसि । नान्यद्भगवत: किंचिद्भाव्यं सदसदात्मकम् ॥ ३३ ॥
ŚB 2.6.34
न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्‍वचिन्मे मनसो मृषा गति: । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरि: ॥ ३४ ॥
ŚB 2.6.35
सोऽहं समाम्नायमयस्तपोमय: प्रजापतीनामभिवन्दित: पति: । आस्थाय योगं निपुणं समाहित- स्तं नाध्यगच्छं यत आत्मसम्भव: ॥ ३५ ॥
ŚB 2.6.36
नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभ: स्वान्तमथापरे कुत: ॥ ३६ ॥
ŚB 2.6.37
नाहं न यूयं यद‍ृतां गतिं विदु- र्न वामदेव: किमुतापरे सुरा: । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३७ ॥
ŚB 2.6.38
यस्यावतारकर्माणि गायन्ति ह्यस्मदादय: । न यं विदन्ति तत्त्वेन तस्मै भगवते नम: ॥ ३८ ॥
ŚB 2.6.39
स एष आद्य: पुरुष: कल्पे कल्पे सृजत्यज: । आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ ३९ ॥
ŚB 2.6.40-41
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् । सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ४० ॥ ऋषे विदन्ति मुनय: प्रशान्तात्मेन्द्रियाशया: । यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४१ …
ŚB 2.6.42
आद्योऽवतार: पुरुष: परस्य काल: स्वभाव: सदसन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्‍नु चरिष्णु भूम्न: ॥ ४२ ॥
ŚB 2.6.43-45
अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपाला: खगलोकपाला नृलोकपालास्तललोकपाला: ॥ ४३ ॥ गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथा: । ये वा ऋषीणामृषभा: पितृणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्रा: । अन्ये च ये …
ŚB 2.6.46
प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्न: । आपीयतां कर्णकषायशोषा- ननुक्रमिष्ये त इमान् सुपेशान् ॥ ४६ ॥
ŚB 2.7.1
ब्रह्मोवाच यत्रोद्यत: क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्त: । अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १ ॥
ŚB 2.7.2
जातो रुचेरजनयत् सुयमान् सुयज्ञ आकूतिसूनुरमरानथ दक्षिणायाम् । लोकत्रयस्य महतीमहरद् यदार्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्त: ॥ २ ॥
ŚB 2.7.3
जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभि: समं नवभिरात्मगतिं स्वमात्रे । ऊचे ययात्मशमलं गुणसङ्गपङ्क- मस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥
ŚB 2.7.4
अत्रेरपत्यमभिकाङ्‍क्षत आह तुष्टो दत्तो मयाहमिति यद् भगवान् स दत्त: । यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैहयाद्या: ॥ ४ ॥
ŚB 2.7.5
तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात् स्वतपस: स चतु:सनोऽभूत् । प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥