Search
Jump to facet filters
ŚB 2.7.6
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतप:प्रभाव: । दृष्ट्वात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकु: ॥ ६ ॥
ŚB 2.7.7
कामं दहन्ति कृतिनो ननु रोषदृष्टया रोषं दहन्तमुत ते न दहन्त्यसह्यम् । सोऽयं यदन्तरमलं प्रविशन् बिभेति काम: कथं नु पुनरस्य मन: श्रयेत ॥ ७ …
ŚB 2.7.8
विद्ध: सपत्न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि । तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो दिव्या: स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
ŚB 2.7.9
यद्वेनमुत्पथगतं द्विजवाक्यवज्र- निष्प्लुष्टपौरुषभगं निरये पतन्तम् । त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
ŚB 2.7.10
नाभेरसावृषभ आस सुदेविसूनु- र्यो वै चचार समदृग् जडयोगचर्याम् । यत्पारमहंस्यमृषय: पदमामनन्ति स्वस्थ: प्रशान्तकरण: परिमुक्तसङ्ग: ॥ १० ॥
ŚB 2.7.11
सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्ण: । छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशती: श्वसतोऽस्य नस्त: ॥ ११ ॥
ŚB 2.7.12
मत्स्यो युगान्तसमये मनुनोपलब्ध: क्षोणीमयो निखिलजीवनिकायकेत: । विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
ŚB 2.7.13
क्षीरोदधावमरदानवयूथपाना- मुन्मथ्नताममृतलब्धय आदिदेव: । पृष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डू: ॥ १३ ॥
ŚB 2.7.14
त्रैपिष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् । दैत्येन्द्रमाशु गदयाभिपतन्तमारा- दूरौ निपात्य विददार नखै: स्फुरन्तम् ॥ १४ ॥
ŚB 2.7.15
अन्त:सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्त: । आहेदमादिपुरुषाखिललोकनाथ तीर्थश्रव: श्रवणमङ्गलनामधेय ॥ १५ ॥
ŚB 2.7.16
श्रुत्वा हरिस्तमरणार्थिनमप्रमेय- श्चक्रायुध: पतगराजभुजाधिरूढ: । चक्रेण नक्रवदनं विनिपाट्य तस्मा- द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥
ŚB 2.7.17
ज्यायान् गुणैरवरजोऽप्यदिते: सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञ: । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन् प्रभुभिर्न चाल्य: ॥ १७ ॥
ŚB 2.7.18
नार्थो बलेरयमुरुक्रमपादशौच- माप: शिखाधृतवतो विबुधाधिपत्यम् । यो वै प्रतिश्रुतमृते न चिकीर्षदन्य- दात्मानमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥
ŚB 2.7.19
तुभ्यं च नारद भृशं भगवान् विवृद्ध- भावेन साधुपरितुष्ट उवाच योगम् । ज्ञानं च भागवतमात्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
ŚB 2.7.20
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रै: ॥ २० ॥
ŚB 2.7.21
धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति- र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥
ŚB 2.7.22
क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकमुग्रवीर्य- स्त्रि:सप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥
ŚB 2.7.23
अस्मत्प्रसादसुमुख: कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
ŚB 2.7.24
यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद् दिधक्षो: । दूरे सुहृन्मथितरोषसुशोणदृष्टया तातप्यमानमकरोरगनक्रचक्र: ॥ २४ ॥
ŚB 2.7.25
वक्ष:स्थलस्पर्शरुग्नमहेन्द्रवाह- दन्तैर्विडम्बितककुब्जुष ऊढहासम् । सद्योऽसुभि: सह विनेष्यति दारहर्तु- र्विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥ २५ ॥