Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 2.7.26
भूमे: सुरेतरवरूथविमर्दिताया: क्लेशव्ययाय कलया सितकृष्णकेश: । जात: करिष्यति जनानुपलक्ष्यमार्ग: कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥
ŚB 2.7.27
तोकेन जीवहरणं यदुलूकिकाया- स्त्रैमासिकस्य च पदा शकटोऽपवृत्त: । यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ २७ ॥
ŚB 2.7.28
यद् वै व्रजे व्रजपशून् विषतोयपीतान् पालांस्त्वजीवयदनुग्रहद‍ृष्टिवृष्टय‍ा । तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व- मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥
ŚB 2.7.29
तत् कर्म दिव्यमिव यन्निशि नि:शयानं दावाग्निना शुचिवने परिदह्यमाने । उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्य: ॥ २९ ॥
ŚB 2.7.30
गृह्णीत यद् यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत् तदमुष्य माति । यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमना: प्रतिबोधितासीत् ॥ ३० ॥
ŚB 2.7.31
नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद् गोपान् बिलेषु पिहितान् मयसूनुना च । अह्न्यापृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥ ३१ ॥
ŚB 2.7.32
गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षु: । धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त- वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥
ŚB 2.7.33
क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मुख: कलपदायतमूर्च्छितेन । उद्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
ŚB 2.7.34-35
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट- मल्लेभकंसयवना: कपिपौण्ड्रकाद्या: । अन्ये च शाल्वकुजबल्वलदन्तवक्र- सप्तोक्षशम्बरविदूरथरुक्‍मिमुख्या: ॥ ३४ ॥ ये वा मृधे समितिशालिन आत्तचापा: काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्या: । यास्यन्त्यदर्शनमलं बलपार्थभीम- व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ …
ŚB 2.7.36
कालेन मीलितधियामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूरपार: । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
ŚB 2.7.37
देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरद‍ृश्यतूर्भि: । लोकान् घ्नतां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥
ŚB 2.7.38
यर्ह्यालयेष्वपि सतां न हरे: कथा: स्यु: पाषण्डिनो द्विजजना वृषला नृदेवा: । स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ …
ŚB 2.7.39
सर्गे तपोऽहमृषयो नव ये प्रजेशा: स्थानेऽथ धर्ममखमन्वमरावनीशा: । अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमा: पुरुशक्तिभाज: ॥ ३९ ॥
ŚB 2.7.40
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह य: पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ य: स्वरहसास्खलता त्रिपृष्ठं यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ ४० ॥
ŚB 2.7.41
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽवरा ये । गायन् गुणान् दशशतानन आदिदेव: शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥
ŚB 2.7.42
येषां स एष भगवान् दययेदनन्त: सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् । ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धी: श्वश‍ृगालभक्ष्ये ॥ ४२ ॥
ŚB 2.7.43-45
वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्य: । पत्नी मनो: स च मनुश्च तदात्मजाश्च प्राचीनबर्हिर्ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥ इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि- रघ्वम्बरीषसगरा गयनाहुषाद्या: । मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो …
ŚB 2.7.46
ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवा: । यद्यद्भुतक्रमपरायणशीलशिक्षा- स्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
ŚB 2.7.47
शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसत: परमात्मतत्त्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना तद् वै पदं भगवत: परमस्य पुंसो ब्रह्मेति यद् …
ŚB 2.7.48
सध्‌रयङ् नियम्य यतयो यमकर्तहेतिं । जह्यु: स्वराडिव निपानखनित्रमिन्द्र: ॥ ४८ ॥