Krishna.mobi - fast, clean Vedabase reading Library
We will miss you, dear Ekanatha Prabhu! We are very grateful for everything you’ve done!

Search

Jump to facet filters
ŚB 2.1.24
विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥
ŚB 2.1.25
अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते । वैराज: पुरुषो योऽसौ भगवान् धारणाश्रय: ॥ २५ ॥
ŚB 2.1.26
पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥
ŚB 2.1.27
द्वे जानुनी सुतलं विश्वमूर्ते- रूरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥
ŚB 2.1.28
उर:स्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य । तपो वराटीं विदुरादिपुंस: सत्यं तु शीर्षाणि सहस्रशीर्ष्ण: ॥ २८ ॥
ŚB 2.1.29
इन्द्रादयो बाहव आहुरुस्रा: कर्णौ दिश:श्रोत्रममुष्य शब्द: । नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्ध: ॥ २९ ॥
ŚB 2.1.30
द्यौरक्षिणी चक्षुरभूत्पतङ्ग: पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भ: परमेष्ठिधिष्ण्य- मापोऽस्य तालु रस एव जिह्वा ॥ ३० ॥
ŚB 2.1.31
छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यम: स्‍नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्ष: ॥ ३१ ॥
ŚB 2.1.32
व्रीडोत्तरौष्ठोऽधर एव लोभो धर्म: स्तनोऽधर्मपथोऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षि: समुद्रा गिरयोऽस्थिसङ्घा: ॥ ३२ ॥
ŚB 2.1.33
नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्य: श्वसितं मातरिश्वा गतिर्वय: कर्म गुणप्रवाह: ॥ ३३ ॥
ŚB 2.1.34
ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्न: । अव्यक्तमाहुर्हृदयं मनश्च स चन्द्रमा: सर्वविकारकोश: ॥ ३४ ॥
ŚB 2.1.35
विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्त:करणं गिरित्रम् । अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगा: पशव: श्रोणिदेशे ॥ ३५ ॥
ŚB 2.1.36
वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवास: । गन्धर्वविद्याधरचारणाप्सर: स्वरस्मृतीरसुरानीकवीर्य: ॥ ३६ ॥
ŚB 2.1.37
ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्‌घ्रिश्रितकृष्णवर्ण: । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मक: कर्म वितानयोग: ॥ ३७ ॥
ŚB 2.1.38
इयानसावीश्वरविग्रहस्य य: सन्निवेष: कथितो मया ते । सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे मन: स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥
ŚB 2.1.39
स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैक: । तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद् यत आत्मपात: ॥ ३९ ॥
ŚB 2.2.1
श्रीशुक उवाच एवं पुरा धारणयात्मयोनि- र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघद‍ृष्टि- र्यथाप्ययात् प्राग् व्यवसायबुद्धि: ॥ १ ॥
ŚB 2.2.2
शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थै: । परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयान: ॥ २ ॥
ŚB 2.2.3
अत: कविर्नामसु यावदर्थ: स्यादप्रमत्तो व्यवसायबुद्धि: । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥
ŚB 2.2.4
सत्यां क्षितौ किं कशिपो: प्रयासै- र्बाहौ स्वसिद्धे ह्युपबर्हणै: किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलै: ॥ ४ ॥