Search
Jump to facet filters
ŚB 2.6.6
बाहवो लोकपालानां प्रायश: क्षेमकर्मणाम् ॥ ६ ॥
ŚB 2.6.7
विक्रमो भूर्भुव: स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ७ ॥
ŚB 2.6.8
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापते: । पुंस: शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृते: ॥ ८ ॥
ŚB 2.6.9
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निऋर्तेर्मृत्योर्निरयस्य गुदं स्मृत: ॥ ९ ॥
ŚB 2.6.10
पराभूतेरधर्मस्य तमसश्चापि पश्चिम: । नाड्यो नदनदीनां च गोत्राणामस्थिसंहति: ॥ १० ॥
ŚB 2.6.11
अव्यक्तरससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनस: पदम् ॥ ११ ॥
ŚB 2.6.12
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥
ŚB 2.6.13-16
अहं भवान् भवश्चैव त इमे मुनयोऽग्रजा: । सुरासुरनरा नागा: खगा मृगसरीसृपा: ॥ १३ ॥ गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगा: । पशव: पितर: सिद्धा विद्याध्राश्चारणा द्रुमा: …
ŚB 2.6.17
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपंस्तपत्यन्तर्बहि: पुमान् ॥ १७ ॥
ŚB 2.6.18
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्यय: ॥ १८ ॥
ŚB 2.6.19
पादेषु सर्वभूतानि पुंस: स्थितिपदो विदु: । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १९ ॥
ŚB 2.6.20
पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमा: । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रत: ॥ २० ॥
ŚB 2.6.21
सृती विचक्रमे विश्वङ्साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥ २१ ॥
ŚB 2.6.22
यस्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्मक: । तद् द्रव्यमत्यगाद् विश्वं गोभि: सूर्य इवातपन् ॥ २२ ॥
ŚB 2.6.23
यदास्य नाभ्यान्नलिनादहमासं महात्मन: । नाविदं यज्ञसम्भारान् पुरुषावयवानृते ॥ २३ ॥
ŚB 2.6.24
तेषु यज्ञस्य पशव: सवनस्पतय: कुशा: । इदं च देवयजनं कालश्चोरुगुणान्वित: ॥ २४ ॥
ŚB 2.6.25
वस्तून्योषधय: स्नेहा रसलोहमृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २५ ॥
ŚB 2.6.26
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रम: कल्प: सङ्कल्पस्तन्त्रमेव च ॥ २६ ॥
ŚB 2.6.27
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषावयवैरेते सम्भारा: सम्भृता मया ॥ २७ ॥
ŚB 2.6.28
इति सम्भृतसम्भार: पुरुषावयवैरहम् । तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २८ ॥