Search
Jump to facet filters
Bg. 3.1
अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
Bg. 3.2
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥
Bg. 3.3
श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥
Bg. 3.4
न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्नुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
Bg. 3.5
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥
Bg. 3.6
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥
Bg. 3.7
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥
Bg. 3.8
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ८ ॥
Bg. 3.9
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥
Bg. 3.10
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥
Bg. 3.11
देवान्भावयतातेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥
Bg. 3.12
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥
Bg. 3.13
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषै । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥
Bg. 3.14
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥
Bg. 3.15
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
Bg. 3.16
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥
Bg. 3.17
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥
Bg. 3.18
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
Bg. 3.19
तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरूषः ॥ १९ ॥
Bg. 3.20
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥
Hierarchy
TEXT 1
(1)
TEXT 2
(1)
TEXT 3
(1)
TEXT 4
(1)
TEXT 5
(1)
TEXT 6
(1)
TEXT 7
(1)
TEXT 8
(1)
TEXT 9
(1)
TEXT 10
(1)
TEXT 11
(1)
TEXT 12
(1)
TEXT 13
(1)
TEXT 14
(1)
TEXT 15
(1)
TEXT 16
(1)
TEXT 17
(1)
TEXT 18
(1)
TEXT 19
(1)
TEXT 20
(1)
TEXT 21
(1)
TEXT 22
(1)
TEXT 23
(1)
TEXT 24
(1)
TEXT 25
(1)
TEXT 26
(1)
TEXT 27
(1)
TEXT 28
(1)
TEXT 29
(1)
TEXT 30
(1)
TEXT 31
(1)
TEXT 32
(1)
TEXT 33
(1)
TEXT 34
(1)
TEXT 35
(1)
TEXT 36
(1)
TEXT 37
(1)
TEXT 38
(1)
TEXT 39
(1)
TEXT 40
(1)
TEXT 41
(1)
TEXT 42
(1)
TEXT 43
(1)