Search
Jump to facet filters
Bg. 5.27-28
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: । विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥
Bg. 5.29
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥
Bg. 5.1
अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
Bg. 5.2
श्रीभगवानुवाच सन्न्यास: कर्मयोगश्च नि:श्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥
Bg. 5.3
ज्ञेय: स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥
Bg. 5.4
सांख्ययोगौ पृथग्बाला: प्रवदन्ति न पण्डिता: । एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
Bg. 5.5
यत्सांख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च य: पश्यति स पश्यति ॥ ५ ॥
Bg. 5.6
सन्न्यासस्तु महाबाहो दु:खमाप्तुमयोगत: । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥
Bg. 5.7
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रिय: । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥
Bg. 5.8-9
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन् ॥ ८ ॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
Bg. 5.10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
Bg. 5.11
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ११ ॥
Bg. 5.12
युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्त: कामकारेण फले सक्तो निबध्यते ॥ १२ ॥
Bg. 5.13
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
Bg. 5.14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
Bg. 5.15
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: ॥ १५ ॥
Bg. 5.16
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
Bg. 5.17
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: ॥ १७ ॥
Bg. 5.18
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिता: समदर्शिन: ॥ १८ ॥
Bg. 5.19
इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिता: ॥ १९ ॥