Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
Bg. 6.1
श्रीभगवानुवाच अनाश्रित: कर्मफलं कार्यं कर्म करोति य: । स सन्न्यासी च योगी च न निरग्न‍िर्न चाक्रिय: ॥ १ ॥
Bg. 6.2
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥
Bg. 6.3
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्यतस्यैव शम: कारणमुच्यते ॥ ३ ॥
Bg. 6.4
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्ज‍ते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥
Bg. 6.5
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ५ ॥
Bg. 6.6
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित: । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥
Bg. 6.7
जितात्मन: प्रशान्तस्य परमात्मा समाहित: । शीतोष्णसुखदु:खेषु तथा मानापमानयो: ॥ ७ ॥
Bg. 6.8
ज्ञानविज्ञानतृप्‍तात्मा कूटस्थो विजितेन्द्रिय: । युक्त इत्युच्यते योगी समलोष्ट्राश्मकाञ्चन: ॥ ८ ॥
Bg. 6.9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
Bg. 6.10
योगी युञ्जीत सततमात्मानं रहसि स्थित: । एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥ १० ॥
Bg. 6.11-12
श‍ुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय । उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥ १२ ॥
Bg. 6.13-14
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: । मन: संयम्य मच्च‍ित्तो युक्त आसीत मत्पर: ॥ …
Bg. 6.15
युञ्जन्नेवं सदात्मानं योगी नियतमानस: । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥
Bg. 6.16
नात्यश्न‍तस्तु योगोऽस्ति न चैकान्तमनश्न‍त: । न चातिस्वप्‍नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
Bg. 6.17
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्‍नावबोधस्य योगो भवति दु:खहा ॥ १७ ॥
Bg. 6.18
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निस्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
Bg. 6.19
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥
Bg. 6.20-23
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥ सुखमात्यन्तिकं यत्तद्‍बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ …
Bg. 6.24
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा । सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: । मनसैवेन्द्रियग्रामं विनियम्य समन्तत: ॥ २४ ॥
Bg. 6.25
शनै: शनैरुपरमेद्‍बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥