Search
Jump to facet filters
Bg. 8.1
अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
Bg. 8.2
अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: ॥ २ ॥
Bg. 8.3
श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्ग: कर्मसंज्ञित: ॥ ३ ॥
Bg. 8.4
अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
Bg. 8.5
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । य: प्रयाति स मद्भावं याति नास्त्यत्र संशय: ॥ ५ ॥
Bg. 8.6
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावित: ॥ ६ ॥
Bg. 8.7
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशय: ॥ ७ ॥
Bg. 8.8
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
Bg. 8.9
कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमस: परस्तात् ॥ ९ ॥
Bg. 8.10
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्य- क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
Bg. 8.11
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
Bg. 8.12
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूध्न्र्याधायात्मन: प्राणमास्थितो योगधारणाम् ॥ १२ ॥
Bg. 8.13
ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥
Bg. 8.14
अनन्यचेता: सततं यो मां स्मरति नित्यश: । तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥
Bg. 8.15
मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥
Bg. 8.16
आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
Bg. 8.17
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥ १७ ॥
Bg. 8.18
अव्यक्ताद् व्यक्तय: सर्वा: प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
Bg. 8.19
भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
Bg. 8.20
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥