Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
Bg. 9.1
श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १ ॥
Bg. 9.2
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
Bg. 9.3
अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
Bg. 9.4
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥
Bg. 9.5
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥
Bg. 9.6
यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
Bg. 9.7
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
Bg. 9.8
प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
Bg. 9.9
न च मां तानि कर्माणि निबध्‍नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
Bg. 9.10
मयाध्यक्षेण प्रकृति: सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
Bg. 9.11
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
Bg. 9.12
मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥
Bg. 9.13
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
Bg. 9.14
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: । नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥
Bg. 9.15
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
Bg. 9.16
अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् । मन्‍त्रोऽहमहमेवाज्यमहमग्न‍िरहं हुतम् ॥ १६ ॥
Bg. 9.17
पिताहमस्य जगतो माता धाता पितामह: । वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥
Bg. 9.18
गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत् । प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
Bg. 9.19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्च‍ाहमर्जुन ॥ १९ ॥
Bg. 9.20
त्रैविद्या मां सोमपा: पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्न‍‍न्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥