Search
Jump to facet filters
Bg. 10.27
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
Bg. 10.28
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥
Bg. 10.29
अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यम: संयमतामहम् ॥ २९ ॥
Bg. 10.30
प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥
Bg. 10.31
पवन: पवतामस्मि राम: शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
Bg. 10.32
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥ ३२ ॥
Bg. 10.33
अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च । अहमेवाक्षय: कालो धाताहं विश्वतोमुख: ॥ ३३ ॥
Bg. 10.34
मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥
Bg. 10.35
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: ॥ ३५ ॥
Bg. 10.36
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥
Bg. 10.37
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय: । मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥ ३७ ॥
Bg. 10.38
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
Bg. 10.39
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
Bg. 10.40
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
Bg. 10.41
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसम्भवम् ॥ ४१ ॥
Bg. 10.42
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥
Bg. 10.1
श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वच: । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
Bg. 10.2
न मे विदु: सुरगणा: प्रभवं न महर्षय: । अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥
Bg. 10.3
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥
Bg. 10.4-5
बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: । सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: । भवन्ति भावा …
Hierarchy
TEXT 1
(1)
TEXT 2
(1)
TEXT 3
(1)
TEXTS 4-5
(1)
TEXT 6
(1)
TEXT 7
(1)
TEXT 8
(1)
TEXT 9
(1)
TEXT 10
(1)
TEXT 11
(1)
TEXTS 12-13
(1)
TEXT 14
(1)
TEXT 15
(1)
TEXT 16
(1)
TEXT 17
(1)
TEXT 18
(1)
TEXT 19
(1)
TEXT 20
(1)
TEXT 21
(1)
TEXT 22
(1)
TEXT 23
(1)
TEXT 24
(1)
TEXT 25
(1)
TEXT 26
(1)
TEXT 27
(1)
TEXT 28
(1)
TEXT 29
(1)
TEXT 30
(1)
TEXT 31
(1)
TEXT 32
(1)
TEXT 33
(1)
TEXT 34
(1)
TEXT 35
(1)
TEXT 36
(1)
TEXT 37
(1)
TEXT 38
(1)
TEXT 39
(1)
TEXT 40
(1)
TEXT 41
(1)
TEXT 42
(1)