Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
Bg. 11.1
अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥
Bg. 11.2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
Bg. 11.3
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥
Bg. 11.4
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
Bg. 11.5
श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश: । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
Bg. 11.6
पश्यादित्यान्वसून्‍रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
Bg. 11.7
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्च‍ान्यद्‍द्रष्टुमिच्छसि ॥ ७ ॥
Bg. 11.8
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षु: पश्य मे योगमैश्वरम् ॥ ८ ॥
Bg. 11.9
सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
Bg. 11.10-11
अनेकवक्‍त्रनयनमनेकाद्भ‍ुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥
Bg. 11.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भा: सदृशी सा स्याद्भ‍ासस्तस्य महात्मन: ॥ १२ ॥
Bg. 11.13
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
Bg. 11.14
तत: स विस्मयाविष्टो हृष्टरोमा धनञ्जय: । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
Bg. 11.15
अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
Bg. 11.16
अनेकबाहूदरवक्‍त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
Bg. 11.17
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्‍तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता- द्दीप्‍तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
Bg. 11.18
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्यय: शाश्वतधर्मगोप्‍ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
Bg. 11.19
अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्‍तहुताशवक्‍त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥
Bg. 11.20
द्यावापृथिव्योरिदमन्तरं हि व्याप्‍तं त्वयैकेन दिशश्च सर्वा: । दृष्ट्वाद्‍भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
Bg. 11.21
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भ‍ीता: प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा: स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥ २१ ॥