Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
Bg. 12.1
अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: ॥ १ ॥
Bg. 12.2
श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥
Bg. 12.3-4
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: । ते प्राप्‍नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥
Bg. 12.5
क्ल‍ेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दु:खं देहवद्भ‍िरवाप्यते ॥ ५ ॥
Bg. 12.6-7
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा: । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ …
Bg. 12.8
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥ ८ ॥
Bg. 12.9
अथ चित्तं समाधातुं न शक्न‍ोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्‍तुं धनञ्जय ॥ ९ ॥
Bg. 12.10
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥
Bg. 12.11
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: । सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् ॥ ११ ॥
Bg. 12.12
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
Bg. 12.13-14
अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च । निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥ सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय: । मय्यर्पितमनोबुद्धिर्यो मद्भ‍क्त: स …
Bg. 12.15
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य: । हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय: ॥ १५ ॥
Bg. 12.16
अनपेक्ष: श‍ुचिर्दक्ष उदासीनो गतव्यथ: । सर्वारम्भपरित्यागी यो मद्भ‍क्त: स मे प्रिय: ॥ १६ ॥
Bg. 12.17
यो न हृष्यति न द्वेष्टि न शोचति न काङ्‍क्षति । श‍ुभाश‍ुभपरित्यागी भक्तिमान्य: स मे प्रिय: ॥ १७ ॥
Bg. 12.18-19
सम: शत्रौ च मित्रे च तथा मानापमानयो: । शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित: ॥ १८ ॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर: …
Bg. 12.20
ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥