Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
Bg. 15.5
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा: । द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै- र्गच्छन्त्यमूढा: पदमव्ययं तत् ॥ ५ ॥
Bg. 15.6
न तद्भ‍ासयते सूर्यो न शशाङ्को न पावक: । यद्ग‍त्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥
Bg. 15.7
ममैवांशो जीवलोके जीवभूत: सनातन: । मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥
Bg. 15.8
शरीरं यदवाप्‍नोति यच्च‍ाप्युत्क्रामतीश्वर: । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥
Bg. 15.9
श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥
Bg. 15.10
उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥ १० ॥
Bg. 15.11
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: ॥ ११ ॥
Bg. 15.12
यदादित्यगतं तेजो जगद्भ‍ासयतेऽखिलम् । यच्च‍न्द्रमसि यच्च‍ाग्न‍ौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
Bg. 15.13
गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: ॥ १३ ॥
Bg. 15.14
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: । प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ॥ १४ ॥
Bg. 15.15
सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥
Bg. 15.16
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
Bg. 15.17
उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: ॥ १७ ॥
Bg. 15.18
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम: । अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥ १८ ॥
Bg. 15.19
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भ‍जति मां सर्वभावेन भारत ॥ १९ ॥
Bg. 15.20
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्‍बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥
Bg. 15.1
श्रीभगवानुवाच ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥
Bg. 15.2
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवाला: । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
Bg. 15.3-4
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥ तत: पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूय: । तमेव …