Search
Jump to facet filters
Bg. 16.1-3
श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥ अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥ तेज: क्षमा …
Bg. 16.4
दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥
Bg. 16.5
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुच: सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥
Bg. 16.6
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरश: प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥
Bg. 16.7
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा: । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥
Bg. 16.8
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥
Bg. 16.9
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय: । प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: ॥ ९ ॥
Bg. 16.10
काममाश्रित्य दुष्पूरं दम्भमानमदान्विता: । मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रता: ॥ १० ॥
Bg. 16.11-12
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता: । कामोपभोगपरमा एतावदिति निश्चिता: ॥ ११ ॥ आशापाशशतैर्बद्धा: कामक्रोधपरायणा: । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥
Bg. 16.13-15
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ असौ मया हत: शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी …
Bg. 16.16
अनेकचित्तविभ्रान्ता मोहजालसमावृता: । प्रसक्ता: कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥
Bg. 16.17
आत्मसम्भाविता: स्तब्धा धनमानमदान्विता: । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥
Bg. 16.18
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥
Bg. 16.19
तानहं द्विषत: क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥
Bg. 16.20
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥
Bg. 16.21
त्रिविधं नरकस्येदं द्वारं नाशनमात्मन: । काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥
Bg. 16.22
एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर: । आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् ॥ २२ ॥
Bg. 16.23
य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥
Bg. 16.24
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥