Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
Bg. 18.1
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥
Bg. 18.2
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥ २ ॥
Bg. 18.3
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण: । यज्ञदानतप:कर्म न त्याज्यमिति चापरे ॥ ३ ॥
Bg. 18.4
निश्चयं श‍ृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविध: सम्प्रकीर्तित: ॥ ४ ॥
Bg. 18.5
यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
Bg. 18.6
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ ६ ॥
Bg. 18.7
नियतस्य तु सन्न्यास: कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामस: परिकीर्तित: ॥ ७ ॥
Bg. 18.8
दु:खमित्येव यत्कर्म कायक्ल‍ेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥
Bg. 18.9
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्याग: सात्त्विको मत: ॥ ९ ॥
Bg. 18.10
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्ज‍ते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशय: ॥ १० ॥
Bg. 18.11
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत: । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥
Bg. 18.12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण: फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्‍वचित् ॥ १२ ॥
Bg. 18.13
पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥
Bg. 18.14
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्‍चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥
Bg. 18.15
शरीरवाङ्‍मनोभिर्यत्कर्म प्रारभते नर: । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतव: ॥ १५ ॥
Bg. 18.16
तत्रैवं सति कर्तारमात्मानं केवलं तु य: । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मति: ॥ १६ ॥
Bg. 18.17
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्ल‍ोकान्न हन्ति न निबध्यते ॥ १७ ॥
Bg. 18.18
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविध: कर्मसङ्‍ग्रह: ॥ १८ ॥
Bg. 18.19
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदत: । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ १९ ॥
Bg. 18.20
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥