Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 1.18.34
ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: । स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥
ŚB 1.18.35
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भ‍िन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥
ŚB 1.18.36
इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालक: । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
ŚB 1.18.37
इति लङ्घितमर्यादं तक्षक: सप्तमेऽहनि । दङ्‍क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥
ŚB 1.18.38
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
ŚB 1.18.39
स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे द‍ृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥
ŚB 1.18.40
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥
ŚB 1.18.41
निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥
ŚB 1.18.42
न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्‍वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभया: प्रजा: ॥ ४२ ॥
ŚB 1.18.43
अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोक: । तदा हि चौरप्रचुरो विनङ्‍क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥
ŚB 1.18.44
तदद्य न: पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥
ŚB 1.18.45
तदार्यधर्म: प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमय: । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्कर: ॥ ४५ ॥
ŚB 1.18.46
धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्‍श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥
ŚB 1.18.47
अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
ŚB 1.18.48
तिरस्कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ता: प्रभवोऽपि हि ॥ ४८ ॥
ŚB 1.18.49
इति पुत्रकृताघेन सोऽनुतप्तो महामुनि: । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥
ŚB 1.18.50
प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: । न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥
ŚB 1.19.1
सूत उवाच महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मना: । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥
ŚB 1.19.2
ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥
ŚB 1.19.3
अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्य: ॥ ३ ॥