Search
Jump to facet filters
ŚB 3.1.14
इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृत: सत्स्पृहणीयशील: क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥
ŚB 3.1.15
क एनमत्रोपजुहाव जिह्मं दास्या: सुतं यद्बलिनैव पुष्ट: । तस्मिन् प्रतीप: परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसान: ॥ १५ ॥
ŚB 3.1.16
स्वयं धनुर्द्वारि निधाय मायां र्भ्रातु: पुरो मर्मसु ताडितोऽपि । स इत्थमत्युल्बणकर्णबाणै- र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥
ŚB 3.1.17
स निर्गत: कौरवपुण्यलब्धो गजाह्वयात्तीर्थपद: पदानि । अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥
ŚB 3.1.18
पुरेषु पुण्योपवनाद्रिकुञ्जे- ष्वपङ्कतोयेषु सरित्सर:सु । अनन्तलिङ्गै: समलङ्कृतेषु चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥
ŚB 3.1.19
गां पर्यटन्मेध्यविविक्तवृत्ति: सदाप्लुतोऽध:शयनोऽवधूत: । अलक्षित: स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥
ŚB 3.1.20
इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रा- मेकातपत्रामजितेन पार्थ: ॥ २० ॥
ŚB 3.1.21
तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥
ŚB 3.1.22
तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायो: । तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥
ŚB 3.1.23
अन्यानि चेह द्विजदेवदेवै: कृतानि नानायतनानि विष्णो: । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥
ŚB 3.1.24
ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च । कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥
ŚB 3.1.25
स वासुदेवानुचरं प्रशान्तं बृहस्पते: प्राक् तनयं प्रतीतम् । आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥
ŚB 3.1.26
कच्चित्पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्या: कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥
ŚB 3.1.27
कच्चित्कुरूणां परम: सुहृन्नो भाम: स आस्ते सुखमङ्ग शौरि: । यो वै स्वसृणां पितृवद्ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥
ŚB 3.1.28
कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीर: । यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥
ŚB 3.1.29
कच्चित्सुखं सात्वतवृष्णिभोज- दाशार्हकाणामधिप: स आस्ते । यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥
ŚB 3.1.30
कच्चिद्धरे: सौम्य सुत: सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्ब: । असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥
ŚB 3.1.31
क्षेमं स कच्चिद्युयुधान आस्ते य: फाल्गुनाल्लब्धधनूरहस्य: । लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥
ŚB 3.1.32
कच्चिद् बुध: स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्न: । य: कृष्णपादाङ्कितमार्गपांसु- ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥
ŚB 3.1.33
कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातु: । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥
Hierarchy
CHAPTER ONE
(45)
CHAPTER TWO
(34)
CHAPTER THREE
(28)
CHAPTER FOUR
(36)
CHAPTER FIVE
(51)
CHAPTER SIX
(40)
CHAPTER SEVEN
(42)
CHAPTER EIGHT
(33)
CHAPTER NINE
(43)
CHAPTER TEN
(29)
CHAPTER ELEVEN
(42)
CHAPTER TWELVE
(57)
CHAPTER THIRTEEN
(50)
CHAPTER FOURTEEN
(50)
CHAPTER FIFTEEN
(50)
CHAPTER SIXTEEN
(37)
CHAPTER SEVENTEEN
(31)
CHAPTER EIGHTEEN
(27)
CHAPTER NINETEEN
(38)
CHAPTER TWENTY
(53)
CHAPTER TWENTY-ONE
(50)
CHAPTER TWENTY-TWO
(37)
CHAPTER TWENTY-THREE
(54)
CHAPTER TWENTY-FOUR
(46)
CHAPTER TWENTY-FIVE
(43)
CHAPTER TWENTY-SIX
(71)
CHAPTER TWENTY-SEVEN
(29)
CHAPTER TWENTY-EIGHT
(44)
CHAPTER TWENTY-NINE
(43)
CHAPTER THIRTY
(34)
CHAPTER THIRTY-ONE
(47)
CHAPTER THIRTY-TWO
(38)
CHAPTER THIRTY-THREE
(36)