Search
Jump to facet filters
ŚB 4.9.1
मैत्रेय उवाच त एवमुत्सन्नभया उरुक्रमे कृतावनामा: प्रययुस्त्रिविष्टपम् । सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गत: ॥ १ ॥
ŚB 4.9.2
स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहि:स्थितं तदवस्थं ददर्श ॥ २ ॥
ŚB 4.9.3
तद्दर्शनेनागतसाध्वस: क्षिता- ववन्दताङ्गं विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भक- श्चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३ ॥
ŚB 4.9.4
स तं विवक्षन्तमतद्विदं हरि- र्ज्ञात्वास्य सर्वस्य च हृद्यवस्थित: । कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥ ४ ॥
ŚB 4.9.5
स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णय: । तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षिति: ॥ ५ ॥
ŚB 4.9.6
ध्रुव उवाच योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥
ŚB 4.9.7
एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् । सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥
ŚB 4.9.8
त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्न: । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥
ŚB 4.9.9
नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतो: । अर्चन्ति कल्पकतरुं कुणपोपभोग्य- मिच्छन्ति यत्स्पर्शजं निरयेऽपि नृणाम् ॥ ९ ॥
ŚB 4.9.10
या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥
ŚB 4.9.11
भक्तिं मुहु: प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महताममलाशयानाम् । येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्त: ॥ ११ ॥
ŚB 4.9.12
ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वद: सुतसुहृद्गृहवित्तदारा: । ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गा: ॥ १२ ॥
ŚB 4.9.13
तिर्यङ्नगद्विजसरीसृपदेवदैत्य मर्त्यादिभि: परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नात: परं परम वेद्मि न यत्र वाद: ॥ १३ ॥
ŚB 4.9.14
कल्पान्त एतदखिलं जठरेण गृह्णन् शेते पुमान्स्वदृगनन्तसखस्तदङ्के । यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म- गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥
ŚB 4.9.15
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीश: । यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्टया द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥
ŚB 4.9.16
यस्मिन्विरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद्ब्रह्म विश्वभवमेकमनन्तमाद्य- मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥
ŚB 4.9.17
सत्याशिषो हि भगवंस्तव पादपद्म- माशीस्तथानुभजत: पुरुषार्थमूर्ते: । अप्येवमर्य भगवान्परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥
ŚB 4.9.18
मैत्रेय उवाच अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता । भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥
ŚB 4.9.19
श्रीभगवानुवाच वेदाहं ते व्यवसितं हृदि राजन्यबालक । तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १९ ॥
ŚB 4.9.20-21
नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति । यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥ मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् । धर्मोऽग्नि: कश्यप: शुक्रो मुनयो ये वनौकस: । चरन्ति …
Hierarchy
Text 1
(1)
Text 2
(1)
Text 3
(1)
Text 4
(1)
Text 5
(1)
Text 6
(1)
Text 7
(1)
Text 8
(1)
Text 9
(1)
Text 10
(1)
Text 11
(1)
Text 12
(1)
Text 13
(1)
Text 14
(1)
Text 15
(1)
Text 16
(1)
Text 17
(1)
Text 18
(1)
Text 19
(1)
Texts 20-21
(1)
Text 22
(1)
Text 23
(1)
Text 24
(1)
Text 25
(1)
Text 26
(1)
Text 27
(1)
Text 28
(1)
Text 29
(1)
Text 30
(1)
Text 31
(1)
Text 32
(1)
Text 33
(1)
Text 34
(1)
Text 35
(1)
Text 36
(1)
Text 37
(1)
Text 38
(1)
Texts 39-40
(1)
Text 41
(1)
Texts 42-43
(1)
Text 44
(1)
Text 45
(1)
Text 46
(1)
Text 47
(1)
Text 48
(1)
Text 49
(1)
Text 50
(1)
Text 51
(1)
Text 52
(1)
Text 53
(1)
Text 54
(1)
Text 55
(1)
Text 56
(1)
Text 57
(1)
Texts 58-59
(1)
Text 60
(1)
Text 61
(1)
Text 62
(1)
Text 63
(1)
Text 64
(1)
Text 65
(1)
Text 66
(1)
Text 67
(1)