Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 4.26.1-3
नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥ एकरश्म्येकदमनमेकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २ ॥ हैमोपस्करमारुह्य …
ŚB 4.26.4
चचार मृगयां तत्र द‍ृप्त आत्तेषुकार्मुक: । विहाय जायामतदर्हां मृगव्यसनलालस: ॥ ४ ॥
ŚB 4.26.5
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रह: । न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५ ॥
ŚB 4.26.6
तीर्थेषु प्रतिद‍ृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
ŚB 4.26.7
य एवं कर्म नियतं विद्वान् कुर्वीत मानव: । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
ŚB 4.26.8
अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते । गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यध: ॥ ८ ॥
ŚB 4.26.9
तत्र निर्भिन्नगात्राणां चित्रवाजै: शिलीमुखै: । विप्लवोऽभूद्दु:खितानां दु:सह: करुणात्मनाम् ॥ ९ ॥
ŚB 4.26.10
शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् । मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥
ŚB 4.26.11
तत: क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् । कृतस्‍नानोचिताहार: संविवेश गतक्लम: ॥ ११ ॥
ŚB 4.26.12
आत्मानमर्हयां चक्रे धूपालेपस्रगादिभि: । साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मन: ॥ १२ ॥
ŚB 4.26.13
तृप्तो हृष्ट: सुद‍ृप्तश्च कन्दर्पाकृष्टमानस: । न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥
ŚB 4.26.14
अन्त:पुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् । अपि व: कुशलं रामा: सेश्वरीणां यथा पुरा ॥ १४ ॥
ŚB 4.26.15
न तथैतर्हि रोचन्ते गृहेषु गृहसम्पद: । यदि न स्याद्गृहे माता पत्नी वा पतिदेवता । व्यङ्गे रथ इव प्राज्ञ: को नामासीत दीनवत् ॥ …
ŚB 4.26.16
क्‍व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥
ŚB 4.26.17
रामा ऊचु: नरनाथ न जानीमस्त्वत्प्रिया यद्वय‍वस्यति । भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥
ŚB 4.26.18
नारद उवाच पुरञ्जन: स्वमहिषीं निरीक्ष्यावधुतां भुवि । तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥
ŚB 4.26.19
सान्‍त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्या: स्‍नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥ १९ ॥
ŚB 4.26.20
अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविद: । पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २० ॥
ŚB 4.26.21
पुरञ्जन उवाच नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वरा: शुभे । कृताग:स्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥
ŚB 4.26.22
परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पित: । बालो न वेद तत्तन्वि बन्धुकृत्यममर्षण: ॥ २२ ॥