Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 4.1.48
तस्यां ससर्ज दुहितृ: षोडशामललोचना: । त्रयोदशादाद्धर्माय तथैकामग्नये विभु: ॥ ४८ ॥
ŚB 4.1.49-52
पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे । श्रद्धा मैत्री दया शान्तिस्तुष्टि: पुष्टि: क्रियोन्नति: ॥ ४९ ॥ बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नय: । श्रद्धासूत शुभं मैत्री …
ŚB 4.1.53
ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् । मनांसि ककुभो वाता: प्रसेदु: सरितोऽद्रय: ॥ ५३ ॥
ŚB 4.1.54-55
दिव्यवाद्यन्त तूर्याणि पेतु: कुसुमवृष्टय: । मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नरा: ॥ ५४ ॥ नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम् । देवा ब्रह्मादय: सर्वे उपतस्थुरभिष्टवै: ॥ ५५ ॥
ŚB 4.1.56
देवा ऊचु: यो मायया विरचितं निजयात्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नम: परस्मै ॥ ५६ ॥
ŚB 4.1.57
सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन न: सुरगणाननुमेयतत्त्व: । द‍ृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥
ŚB 4.1.58
एवं सुरगणैस्तात भगवन्तावभिष्टुतौ । लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥ ५८ ॥
ŚB 4.1.59
ताविमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुव: कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥
ŚB 4.1.60
स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् । पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥
ŚB 4.1.61
तेभ्योऽग्नय: समभवन्चत्वारिंशच्च पञ्च च । त एवैकोनपञ्चाशत्साकं पितृपितामहै: ॥ ६१ ॥
ŚB 4.1.62
वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभि: । आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥ ६२ ॥
ŚB 4.1.63
अग्निष्वात्ता बर्हिषद: सौम्या: पितर आज्यपा: । साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३ ॥
ŚB 4.1.64
तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥ ६४ ॥
ŚB 4.1.65
भवस्य पत्नी तु सती भवं देवमनुव्रता । आत्मन: सद‍ृशं पुत्रं न लेभे गुणशीलत: ॥ ६५ ॥
ŚB 4.1.66
पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानमजहाद्योगसंयुता ॥ ६६ ॥
ŚB 4.2.1
विदुर उवाच भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सल: । विद्वेषमकरोत्कस्मादनाद‍ृत्यात्मजां सतीम् ॥ १ ॥
ŚB 4.2.2
कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् । आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥
ŚB 4.2.3
एतदाख्याहि मे ब्रह्मन्जामातु: श्वशुरस्य च । विद्वेषस्तु यत: प्राणांस्तत्यजे दुस्त्यजान्सती ॥ ३ ॥
ŚB 4.2.4
मैत्रेय उवाच पुरा विश्वसृजां सत्रे समेता: परमर्षय: । तथामरगणा: सर्वे सानुगा मुनयोऽग्नय: ॥ ४ ॥
ŚB 4.2.5
तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा । भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सद: ॥ ५ ॥