Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 5.26.1
राजोवाच महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥
ŚB 5.26.2
ऋषिरुवाच त्रिगुणत्वात्कर्तु: श्रद्धया कर्मगतय: पृथग्विधा: सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥
ŚB 5.26.3
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तु: श्रद्धाया वैसाद‍ृश्यात्कर्मफलं विसद‍ृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणा: सृतय: सहस्रश: प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्याम: ॥ ३ ॥
ŚB 5.26.4
राजोवाच नरका नाम भगवन्किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४ ॥
ŚB 5.26.5
ऋषिरुवाच अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भ‍ूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादय: पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ ५ ॥
ŚB 5.26.6
यत्र ह वाव भगवान् पितृराजो वैवस्वत: स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासन: सगणो दमं धारयति ॥ ६ ॥
ŚB 5.26.7
तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरव: कुम्भीपाक: कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूप: कृमिभोजन: सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोद: प्राणरोधो विशसनं लालाभक्ष: सारमेयादनमवीचिरय:पानमिति …
ŚB 5.26.8
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रप्राये ॥ ८ ॥
ŚB 5.26.9
एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टद‍ृष्टिश्च भवति यथा वनस्पतिर्वृश्‍च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ९ ॥
ŚB 5.26.10
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥
ŚB 5.26.11
ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥ ११ ॥
ŚB 5.26.12
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति य: केवलं देहम्भर: ॥ १२ ॥
ŚB 5.26.13
यस्त्विह वा उग्र: पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचरा: कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ १३ ॥
ŚB 5.26.14
यस्त्विह ब्रह्मध्रुक स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्‍न्‍यर्काभ्यामतितप्यमानेऽभिनिवेशित: क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहि:शरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि …
ŚB 5.26.15
यस्त्विह वै निजवेदपथादनापद्यपगत: पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छित: पदे पदे निपतति …
ŚB 5.26.16
यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्‍वचिन्मूर्च्छित: …
ŚB 5.26.17
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभि: पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तै: सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थान: परिक्रामति यथा …
ŚB 5.26.18
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुत: स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत: स्वयं कृमिभिरेव भक्ष्यमाण: कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते …
ŚB 5.26.19
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डै: सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९ ॥
ŚB 5.26.20
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥ २० ॥