Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 7.3.1
श्रीनारद उवाच हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ १ ॥
ŚB 7.3.2
स तेपे मन्दरद्रोण्यां तप: परमदारुणम् । ऊर्ध्वबाहुर्नभोद‍ृष्टि: पादाङ्गुष्ठाश्रितावनि: ॥ २ ॥
ŚB 7.3.3
जटादीधितिभी रेजे संवर्तार्क इवांशुभि: । तस्मिंस्तपस्तप्यमाने देवा: स्थानानि भेजिरे ॥ ३ ॥
ŚB 7.3.4
तस्य मूर्ध्न: समुद्भ‍ूत: सधूमोऽग्निस्तपोमय: । तीर्यगूर्ध्वमधोलोकान् प्रातपद्विष्वगीरित: ॥ ४ ॥
ŚB 7.3.5
चुक्षुभुर्नद्युदन्वन्त: सद्वीपाद्रिश्चचाल भू: । निपेतु: सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ५ ॥
ŚB 7.3.6
तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययु: सुरा: । धात्रे विज्ञापयामासुर्देवदेव जगत्पते । दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुम: ॥ ६ ॥
ŚB 7.3.7
तस्य चोपशमं भूमन् विधेहि यदि मन्यसे । लोका न यावन्नङ्‌‌क्ष्यन्ति बलिहारास्तवाभिभू: ॥ ७ ॥
ŚB 7.3.8
तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तप: । श्रूयतां किं न विदितस्तवाथापि निवेदितम् ॥ ८ ॥
ŚB 7.3.9-10
सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्य: परमेष्ठी निजासनम् ॥ ९ ॥ तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मन: ॥ १० ॥
ŚB 7.3.11
अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा । किमन्यै: कालनिर्धूतै: कल्पान्ते वैष्णवादिभि: ॥ ११ ॥
ŚB 7.3.12
इति शुश्रुम निर्बन्धं तप: परममास्थित: । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ १२ ॥
ŚB 7.3.13
तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥
ŚB 7.3.14
इति विज्ञापितो देवैर्भगवानात्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४ ॥
ŚB 7.3.15-16
न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकै: । पिपीलिकाभिराचीर्णं मेदस्त्वङ्‌मांसशोणितम् ॥ १५ ॥ तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् । विलक्ष्य विस्मित: प्राह हसंस्तं हंसवाहन: ॥ १६ …
ŚB 7.3.17
श्रीब्रह्मोवाच उत्तिष्ठोत्तिष्ठ भद्रं ते तप:सिद्धोऽसि काश्यप । वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वर: ॥ १७ ॥
ŚB 7.3.18
अद्राक्षमहमेतं ते हृत्सारं महदद्भ‍ुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ १८ ॥
ŚB 7.3.19
नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमा: शतम् ॥ १९ ॥
ŚB 7.3.20
व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥
ŚB 7.3.21
ततस्त आशिष: सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम ॥ २१ ॥
ŚB 7.3.22
श्रीनारद उवाच इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकै: । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ २२ ॥