Search
Jump to facet filters
ŚB 7.6.1
श्रीप्रह्राद उवाच कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥
ŚB 7.6.2
यथा हि पुरुषस्येह विष्णो: पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वर: सुहृत् ॥ २ ॥
ŚB 7.6.3
सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद्यथा दु:खमयत्नत: ॥ ३ ॥
ŚB 7.6.4
तत्प्रयासो न कर्तव्यो यत आयुर्व्यय: परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥
ŚB 7.6.5
ततो यतेत कुशल: क्षेमाय भवमाश्रित: । शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥ ५ ॥
ŚB 7.6.6
पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मन: । निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तम: ॥ ६ ॥
ŚB 7.6.7
मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशति: । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशति: ॥ ७ ॥
ŚB 7.6.8
दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥
ŚB 7.6.9
को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रिय: । स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ ९ ॥
ŚB 7.6.10
को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सित: । यं क्रीणात्यसुभि: प्रेष्ठैस्तस्कर: सेवको वणिक् ॥ १० ॥
ŚB 7.6.11-13
कथं प्रियाया अनुकम्पिताया: सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसित: शिशूनां कलाक्षराणामनुरक्तचित्त: ॥ ११ ॥ पुत्रान्स्मरंस्ता दुहितृर्हृदय्या भ्रातृन् स्वसृर्वा पितरौ च दीनौ । गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्या: …
ŚB 7.6.14
कुटुम्बपोषाय वियन्निजायु र्न बुध्यतेऽर्थं विहतं प्रमत्त: । सर्वत्र तापत्रयदु:खितात्मा निर्विद्यते न स्वकुटुम्बराम: ॥ १४ ॥
ŚB 7.6.15
वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तु: । प्रेत्येह वाथाप्यजितेन्द्रियस्त- दशान्तकामो हरते कुटुम्बी ॥ १५ ॥
ŚB 7.6.16
विद्वानपीत्थं दनुजा: कुटुम्बं पुष्णन्स्वलोकाय न कल्पते वै । य: स्वीयपारक्यविभिन्नभाव- स्तम: प्रपद्येत यथा विमूढ: ॥ १६ ॥
ŚB 7.6.17-18
यतो न कश्चित् क्व च कुत्रचिद् वा दीन: स्वमात्मानमलं समर्थ: । विमोचितुं कामदृशां विहार- क्रीडामृगो यन्निगडो विसर्ग: ॥ १७ ॥ ततो विदूरात् परिहृत्य दैत्या दैत्येषु …
ŚB 7.6.19
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजा: । आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वत: ॥ १९ ॥
ŚB 7.6.20-23
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥ गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवानीश्वरोऽव्यय: …
ŚB 7.6.24
तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् । भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षज: ॥ २४ ॥
ŚB 7.6.25
तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धा: । धर्मादय: किमगुणेन च काङ्क्षितेन सारं जुषां चरणयोरुपगायतां न: ॥ २५ ॥
ŚB 7.6.26
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृद: परमस्य पुंस: ॥ २६ ॥