Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 7.15.1
श्रीनारद उवाच कर्मनिष्ठा द्विजा: केचित्तपोनिष्ठा नृपापरे । स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयो: ॥ १ ॥
ŚB 7.15.2
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हत: ॥ २ ॥
ŚB 7.15.3
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ३ ॥
ŚB 7.15.4
देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च । सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ॥ ४ ॥
ŚB 7.15.5
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ॥ ५ ॥
ŚB 7.15.6
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ॥ ६ ॥
ŚB 7.15.7
न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नै: स्यात्परा प्रीतिर्यथा न पशुहिंसया ॥ ७ ॥
ŚB 7.15.8
नैताद‍ृश: परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य य: ॥ ८ ॥
ŚB 7.15.9
एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमा: । आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥ ९ ॥
ŚB 7.15.10
द्रव्ययज्ञैर्यक्ष्यमाणं द‍ृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् ॥ १० ॥
ŚB 7.15.11
तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टोऽहरह: कुर्यान्नित्यनैमित्तिकी: क्रिया: ॥ ११ ॥
ŚB 7.15.12
विधर्म: परधर्मश्च आभास उपमा छल: । अधर्मशाखा: पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥ १२ ॥
ŚB 7.15.13
धर्मबाधो विधर्म: स्यात्परधर्मोऽन्यचोदित: । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छल: ॥ १३ ॥
ŚB 7.15.14
यस्त्विच्छया कृत: पुम्भिराभासो ह्याश्रमात्पृथक् । स्वभावविहितो धर्म: कस्य नेष्ट: प्रशान्तये ॥ १४ ॥
ŚB 7.15.15
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ १५ ॥
ŚB 7.15.16
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिश: ॥ १६ ॥
ŚB 7.15.17
सदा सन्तुष्टमनस: सर्वा: शिवमया दिश: । शर्कराकण्टकादिभ्यो यथोपानत्पद: शिवम् ॥ १७ ॥
ŚB 7.15.18
सन्तुष्ट: केन वा राजन्न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जन: ॥ १८ ॥
ŚB 7.15.19
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यश: । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ १९ ॥
ŚB 7.15.20
कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुव: ॥ २० ॥