Search
Jump to facet filters
ŚB 7.8.31
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् । अहन् समस्तान्नखशस्त्रपाणिभि- र्दोर्दण्डयूथोऽनुपथान् सहस्रश: ॥ ३१ ॥
ŚB 7.8.32
सटावधूता जलदा: परापतन् ग्रहाश्च तद् दृष्टिविमुष्टरोचिष: । अम्भोधय: श्वासहता विचुक्षुभु- र्निर्ह्रादभीता दिगिभा विचुक्रुशु: ॥ ३२ ॥
ŚB 7.8.33
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता । शैला: समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥ ३३ ॥
ŚB 7.8.34
तत: सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् । अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥ ३४ ॥
ŚB 7.8.35
निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे । प्रहर्षवेगोत्कलितानना मुहु: प्रसूनवर्षैर्ववृषु: सुरस्त्रिय: ॥ ३५ ॥
ŚB 7.8.36
तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् । सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगु: स्त्रिय: ॥ ३६ ॥
ŚB 7.8.37-39
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादय: । ऋषय: पितर: सिद्धा विद्याधरमहोरगा: ॥ ३७ ॥ मनव: प्रजानां पतयो गन्धर्वाप्सरचारणा: । यक्षा: किम्पुरुषास्तात वेताला: सहकिन्नरा: ॥ ३८ ॥ ते …
ŚB 7.8.40
श्रीब्रह्मोवाच नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान् गुणै: स्वलीलया सन्दधतेऽव्ययात्मने ॥ ४० ॥
ŚB 7.8.41
श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पक: । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ ४१ ॥
ŚB 7.8.42
श्रीइन्द्र उवाच प्रत्यानीता: परम भवता त्रायता न: स्वभागा दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां न हि बहुमता नारसिंहापरै: किम् …
ŚB 7.8.43
श्रीऋषय ऊचु: त्वं नस्तप: परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्क्थ । तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्था: ॥ ४३ ॥
ŚB 7.8.44
श्रीपितर ऊचु: श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै- र्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छत् तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ४४ ॥
ŚB 7.8.45
श्रीसिद्धा ऊचु: यो नो गतिं योगसिद्धामसाधु- रहार्षीद् योगतपोबलेन । नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणता: स्मो नृसिंह ॥ ४५ ॥
ŚB 7.8.46
श्रीविद्याधरा ऊचु: विद्यां पृथग्धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्त: । स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणता: स्म नित्यम् ॥ ४६ ॥
ŚB 7.8.47
श्रीनागा ऊचु: येन पापेन रत्नानि स्त्रीरत्नानि हृतानि न: । तद्वक्ष:पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ४७ ॥
ŚB 7.8.48
श्रीमनव ऊचु: मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतव: । भवता खल: स उपसंहृत: प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ ४८ ॥
ŚB 7.8.49
श्रीप्रजापतय ऊचु: प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धा: । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतार: ॥ ४९ ॥
ŚB 7.8.50
श्रीगन्धर्वा ऊचु: वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृता: । स एष नीतो भवता दशामिमां किमुत्पथस्थ: कुशलाय कल्पते ॥ ५० ॥
ŚB 7.8.51
श्रीचारणा ऊचु: हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिता: । यदेष साधुहृच्छयस्त्वयासुर: समापित: ॥ ५१ ॥
ŚB 7.8.52
श्रीयक्षा ऊचु: वयमनुचरमुख्या: कर्मभिस्ते मनोज्ञै- स्त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीत: पञ्चतां पञ्चविंश ॥ ५२ ॥