Search
Jump to facet filters
ŚB 8.23.1
श्रीशुक उवाच इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसम्मत: । बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ १ ॥
ŚB 8.23.2
श्रीबलिरुवाच अहो प्रणामाय कृत: समुद्यम: प्रपन्नभक्तार्थविधौ समाहित: । यल्लोकपालैस्त्वदनुग्रहोऽमरै- रलब्धपूर्वोऽपसदेऽसुरेऽर्पित: ॥ २ ॥
ŚB 8.23.3
श्रीशुक उवाच इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं तत: । विवेश सुतलं प्रीतो बलिर्मुक्त: सहासुरै: ॥ ३ ॥
ŚB 8.23.4
एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वादिते: काममशासत् सकलं जगत् ॥ ४ ॥
ŚB 8.23.5
लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । निशाम्य भक्तिप्रवण: प्रह्लाद इदमब्रवीत् ॥ ५ ॥
ŚB 8.23.6
श्रीप्रह्लाद उवाच नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्व: किमुतापरेऽन्ये । यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रि: ॥ ६ ॥
ŚB 8.23.7
यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादय: शरणदाश्नुवते विभूती: । कस्माद् वयं कुसृतय: खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवत: प्रणीता: ॥ ७ ॥
ŚB 8.23.8
चित्रं तवेहितमहोऽमितयोगमाया- लीलाविसृष्टभुवनस्य विशारदस्य । सर्वात्मन: समदृशोऽविषम: स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभाव: ॥ ८ ॥
ŚB 8.23.9
श्रीभगवानुवाच वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम् । मोदमान: स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥
ŚB 8.23.10
नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धन: ॥ १० ॥
ŚB 8.23.11-12
श्रीशुक उवाच आज्ञां भगवतो राजन्प्रह्लादो बलिना सह । बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलि: ॥ ११ ॥ परिक्रम्यादिपुरुषं सर्वासुरचमूपति: । प्रणतस्तदनुज्ञात: प्रविवेश महाबिलम् ॥ १२ ॥
ŚB 8.23.13
अथाहोशनसं राजन्हरिर्नारायणोऽन्तिके । आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥
ŚB 8.23.14
ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वत: । यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥
ŚB 8.23.15
श्रीशुक्र उवाच कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । यज्ञेशो यज्ञपुरुष: सर्वभावेन पूजित: ॥ १५ ॥
ŚB 8.23.16
मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुत: । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ १६ ॥
ŚB 8.23.17
तथापि वदतो भूमन् करिष्याम्यनुशासनम् । एतच्छ्रेय: परं पुंसां यत् तवाज्ञानुपालनम् ॥ १७ ॥
ŚB 8.23.18
श्रीशुक उवाच प्रतिनन्द्य हरेराज्ञामुशना भगवानिति । यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभि: सह ॥ १८ ॥
ŚB 8.23.19
एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरि: । ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥
ŚB 8.23.20-21
प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपै: । दक्षभृग्वङ्गिरोमुख्यै: कुमारेण भवेन च ॥ २० ॥ कश्यपस्यादिते: प्रीत्यै सर्वभूतभवाय च । लोकानां लोकपालानामकरोद् वामनं पतिम् ॥ २१ ॥
ŚB 8.23.22-23
वेदानां सर्वदेवानां धर्मस्य यशस: श्रिय: । मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयो: ॥ २२ ॥ उपेन्द्रं कल्पयांचक्रे पतिं सर्वविभूतये । तदा सर्वाणि भूतानि भृशं …