Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 8.3.16
गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागम- स्वयंप्रकाशाय नमस्करोमि ॥ १६ ॥
ŚB 8.3.17
माद‍ृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीत- प्रत्यग्द‍ृशे भगवते बृहते नमस्ते ॥ १७ ॥
ŚB 8.3.18
आत्मात्मजाप्तगृहवित्तजनेषु सक्तै- र्दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभि: स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥ १८ ॥
ŚB 8.3.19
यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९ ॥
ŚB 8.3.20-21
एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्ना: । अत्यद्भ‍ुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्ना: ॥ २० ॥ तमक्षरं ब्रह्म परं परेश- मव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूर- मनन्तमाद्यं परिपूर्णमीडे …
ŚB 8.3.22-24
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचरा: । नामरूपविभेदेन फल्ग्व्या च कलया कृता: ॥ २२ ॥ यथार्चिषोऽग्ने: सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिष: । तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मन: खानि …
ŚB 8.3.25
जिजीविषे नाहमिहामुया कि- मन्तर्बहिश्चावृतयेभयोन्या । इच्छामि कालेन न यस्य विप्लव- स्तस्यात्मलोकावरणस्य मोक्षम् ॥ २५ ॥
ŚB 8.3.26
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६ ॥
ŚB 8.3.27
योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥ २७ ॥
ŚB 8.3.28
नमो नमस्तुभ्यमसह्यवेग- शक्तित्रयायाखिलधीगुणाय । प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८ ॥
ŚB 8.3.29
नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् । तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥ २९ ॥
ŚB 8.3.30
श्रीशुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमाना: । नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ॥ ३० ॥
ŚB 8.3.31
तं तद्वदार्तमुपलभ्य जगन्निवास: स्तोत्रं निशम्य दिविजै: सह संस्तुवद्भ‍ि: । छन्दोमयेन गरुडेन समुह्यमान- श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्र: ॥ ३१ ॥
ŚB 8.3.32
सोऽन्त:सरस्युरुबलेन गृहीत आर्तो द‍ृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् । उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा- न्नारायणाखिलगुरो भगवन् नमस्ते ॥ ३२ ॥
ŚB 8.3.33
तं वीक्ष्य पीडितमज: सहसावतीर्य सग्राहमाशु सरस: कृपयोज्जहार । ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ ३३ ॥
ŚB 8.4.1
श्रीशुक उवाच तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमा: । मुमुचु: कुसुमासारं शंसन्त: कर्म तद्धरे: ॥ १ ॥
ŚB 8.4.2
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगु: । ऋषयश्चारणा: सिद्धास्तुष्टुवु: पुरुषोत्तमम् ॥ २ ॥
ŚB 8.4.3-4
योऽसौ ग्राह: स वै सद्य: परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तम: ॥ ३ ॥ प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥
ŚB 8.4.5
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिष: ॥ ५ ॥
ŚB 8.4.6
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुज: ॥ ६ ॥