Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 9.14.26
अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् । उर्वशीरहितं मह्यमास्थानं नातिशोभते ॥ २६ ॥
ŚB 9.14.27
ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते । उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया ॥ २७ ॥
ŚB 9.14.28
निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयो: । हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ २८ ॥
ŚB 9.14.29
यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभि: । य: शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥ २९ ॥
ŚB 9.14.30
इति वाक्सायकैर्बिद्ध: प्रतोत्त्रैरिव कुञ्जर: । निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥ ३० ॥
ŚB 9.14.31
ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युत: । आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥ ३१ ॥
ŚB 9.14.32
ऐलोऽपि शयने जायामपश्यन् विमना इव । तच्चित्तो विह्वल: शोचन् बभ्रामोन्मत्तवन्महीम् ॥ ३२ ॥
ŚB 9.14.33
स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखी: । पञ्च प्रहृष्टवदन: प्राह सूक्तं पुरूरवा: ॥ ३३ ॥
ŚB 9.14.34
अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥
ŚB 9.14.35
सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् ॥ ३५ ॥
ŚB 9.14.36
उर्वश्युवाच मा मृथा: पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे । क्‍वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ ३६ ॥
ŚB 9.14.37
स्त्रियो ह्यकरुणा: क्रूरा दुर्मर्षा: प्रियसाहसा: । घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ ३७ ॥
ŚB 9.14.38
विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदा: । नवं नवमभीप्सन्त्य: पुंश्चल्य: स्वैरवृत्तय: ॥ ३८ ॥
ŚB 9.14.39
संवत्सरान्ते हि भवानेकरात्रं मयेश्वर: । रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भो: ॥ ३९ ॥
ŚB 9.14.40
अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् । पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥ ४० ॥
ŚB 9.14.41
उपलभ्य मुदा युक्त: समुवास तया निशाम् । अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ ४१ ॥
ŚB 9.14.42
गन्धर्वानुपधावेमांस्तुभ्यं दास्यन्ति मामिति । तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप । उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने ॥ ४२ ॥
ŚB 9.14.43
स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ ४३ ॥
ŚB 9.14.44-45
स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य स: । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ ४४ ॥ उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् । आत्मानमुभयोर्मध्ये यत् तत् प्रजननं प्रभु: …
ŚB 9.14.46
तस्य निर्मन्थनाज्जातो जातवेदा विभावसु: । त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ ४६ ॥