Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 9.10.5
विश्वामित्राध्वरे येन मारीचाद्या निशाचरा: । पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुङ्गवा: ॥ ५ ॥
ŚB 9.10.6-7
यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् । आदाय बालगजलील इवेक्षुयष्टिं सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥ जित्वानुरूपगुणशीलवयोऽङ्गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानाम् । मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं दर्पं महीमकृत …
ŚB 9.10.8
य: सत्यपाशपरिवीतपितुर्निदेशं स्त्रैणस्य चापि शिरसा जगृहे सभार्य: । राज्यं श्रियं प्रणयिन: सुहृदो निवासं त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्ग: ॥ ८ ॥
ŚB 9.10.9
रक्ष:स्वसुर्व्यकृत रूपमशुद्धबुद्धे- स्तस्या: खरत्रिशिरदूषणमुख्यबन्धून् । जघ्ने चतुर्दशसहस्रमपारणीय- कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥
ŚB 9.10.10
सीताकथाश्रवणदीपितहृच्छयेन सृष्टं विलोक्य नृपते दशकन्धरेण । जघ्नेऽद्भ‍ुतैणवपुषाश्रमतोऽपकृष्टो मारीचमाशु विशिखेन यथा कमुग्र: ॥ १० ॥
ŚB 9.10.11
रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् । भ्रात्रा वने कृपणवत् प्रियया वियुक्त: स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥
ŚB 9.10.12
दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं सख्यं विधाय कपिभिर्दयितागतिं तै: । बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यै- र्वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि: ॥ १२ ॥
ŚB 9.10.13
यद्रोषविभ्रमविवृत्तकटाक्षपात- सम्भ्रान्तनक्रमकरो भयगीर्णघोष: । सिन्धु: शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥
ŚB 9.10.14
न त्वां वयं जडधियो नु विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् । यत्सत्त्वत: सुरगणा रजस: प्रजेशा मन्योश्च भूतपतय: स भवान् गुणेश: ॥ १४ ॥
ŚB 9.10.15
कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् । बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपा: ॥ १५ ॥
ŚB 9.10.16
बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटै: सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गै: । सुग्रीवनीलहनुमत्प्रमुखैरनीकै- र्लङ्कां विभीषणद‍ृशाविशदग्रदग्धाम् ॥ १६ ॥
ŚB 9.10.17
सा वानरेन्द्रबलरुद्धविहारकोष्ठ- श्रीद्वारगोपुरसदोवलभीविटङ्का । निर्भज्यमानधिषणध्वजहेमकुम्भ- श‍ृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥
ŚB 9.10.18
रक्ष:पतिस्तदवलोक्य निकुम्भकुम्भ- धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् । पुत्रं प्रहस्तमतिकायविकम्पनादीन् सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥
ŚB 9.10.19
तां यातुधानपृतनामसिशूलचाप- प्रासर्ष्टिशक्तिशरतोमरखड्‌गदुर्गाम् । सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद- नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् ॥ १९ ॥
ŚB 9.10.20
तेऽनीकपा रघुपतेरभिपत्य सर्वे द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधै: । जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्या: सीताभिमर्षहतमङ्गलरावणेशान् ॥ २० ॥
ŚB 9.10.21
रक्ष:पति: स्वबलनष्टिमवेक्ष्य रुष्ट आरुह्य यानकमथाभिससार रामम् । स्व:स्यन्दने द्युमति मातलिनोपनीते विभ्राजमानमहनन्निशितै: क्षुरप्रै: ॥ २१ ॥
ŚB 9.10.22
रामस्तमाह पुरुषादपुरीष यन्न: कान्तासमक्षमसतापहृता श्ववत् ते । त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य यच्छामि काल इव कर्तुरलङ्‍घ्यवीर्य: ॥ २२ ॥
ŚB 9.10.23
एवं क्षिपन् धनुषि संधितमुत्ससर्ज बाणं स वज्रमिव तद्‍धृदयं बिभेद । सोऽसृग् वमन् दशमुखैर्न्यपतद् विमाना- द्धाहेति जल्पति जने सुकृतीव रिक्त: ॥ २३ ॥
ŚB 9.10.24
ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: । मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥
ŚB 9.10.25
स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् । रुरुदु: सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥