Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 10.15.23
सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक् । आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृत: ॥ २३ ॥
ŚB 10.15.24
तस्मात् कृतनराहाराद् भीतैर्नृभिरमित्रहन् । न सेव्यते पशुगणै: पक्षिसङ्घैर्विवर्जितम् ॥ २४ ॥
ŚB 10.15.25
विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च । एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते ॥ २५ ॥
ŚB 10.15.26
प्रयच्छ तानि न: कृष्ण गन्धलोभितचेतसाम् । वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥ २६ ॥
ŚB 10.15.27
एवं सुहृद्वच: श्रुत्वा सुहृत्प्रियचिकीर्षया । प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू ॥ २७ ॥
ŚB 10.15.28
बल: प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् । फलानि पातयामास मतङ्गज इवौजसा ॥ २८ ॥
ŚB 10.15.29
फलानां पततां शब्दं निशम्यासुररासभ: । अभ्यधावत् क्षितितलं सनगं परिकम्पयन् ॥ २९ ॥
ŚB 10.15.30
समेत्य तरसा प्रत्यग् द्वाभ्यां पद्‌भ्यां बलं बली । निहत्योरसि काशब्दं मुञ्चन् पर्यसरत् खल: ॥ ३० ॥
ŚB 10.15.31
पुनरासाद्य संरब्ध उपक्रोष्टा पराक् स्थित: । चरणावपरौ राजन् बलाय प्राक्षिपद् रुषा ॥ ३१ ॥
ŚB 10.15.32
स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना । चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥ ३२ ॥
ŚB 10.15.33
तेनाहतो महातालो वेपमानो बृहच्छिरा: । पार्श्वस्थं कम्पयन् भग्न: स चान्यं सोऽपि चापरम् ॥ ३३ ॥
ŚB 10.15.34
बलस्य लीलयोत्सृष्टखरदेहहताहता: । तालाश्चकम्पिरे सर्वे महावातेरिता इव ॥ ३४ ॥
ŚB 10.15.35
नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे । ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पट: ॥ ३५ ॥
ŚB 10.15.36
तत: कृष्णं च रामं च ज्ञातयो धेनुकस्य ये । क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवा: ॥ ३६ ॥
ŚB 10.15.37
तांस्तानापतत: कृष्णो रामश्च नृप लीलया । गृहीतपश्चाच्चरणान् प्राहिणोत्तृणराजसु ॥ ३७ ॥
ŚB 10.15.38
फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभि: । रराज भू: सतालाग्रैर्घनैरिव नभस्तलम् ॥ ३८ ॥
ŚB 10.15.39
तयोस्तत् सुमहत् कर्म निशम्य विबुधादय: । मुमुचु: पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवु: ॥ ३९ ॥
ŚB 10.15.40
अथ तालफलान्यादन्मनुष्या गतसाध्वसा: । तृणं च पशवश्चेरुर्हतधेनुककानने ॥ ४० ॥
ŚB 10.15.41
कृष्ण: कमलपत्राक्ष: पुण्यश्रवणकीर्तन: । स्तूयमानोऽनुगैर्गोपै: साग्रजो व्रजमाव्रजत् ॥ ४१ ॥
ŚB 10.15.42
तं गोरजश्छुरितकुन्तलबद्धबर्ह- वन्यप्रसूनरुचिरेक्षणचारुहासम् । वेणुम्क्वणन्तमनुगैरुपगीतकीर्तिं गोप्यो दिद‍ृक्षितद‍ृशोऽभ्यगमन् समेता: ॥ ४२ ॥