Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 10.27.1
श्रीशुक उवाच गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजत्कृष्णं सुरभि: शक्र एव च ॥ १ ॥
ŚB 10.27.2
विविक्त उपसङ्गम्य व्रीडीत: कृतहेलन: । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २ ॥
ŚB 10.27.3
द‍ृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजस: । नष्टत्रिलोकेशमद इदमाह कृताञ्जलि: ॥ ३ ॥
ŚB 10.27.4
इन्द्र उवाच विशुद्धसत्त्वं तव धाम शान्तंतपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहोन विद्यते तेऽग्रहणानुबन्ध: ॥ ४ ॥
ŚB 10.27.5
कुतो नु तद्धेतव ईश तत्कृतालोभादयो येऽबुधलिङ्गभावा: । तथापि दण्डं भगवान् बिभर्तिधर्मस्य गुप्‍त्यै लनिग्रहाय ॥ ५ ॥
ŚB 10.27.6
पिता गुरुस्त्वं जगतामधीशोदुरत्यय: काल उपात्तदण्ड: । हिताय चेच्छातनुभि: समीहसेमानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥
ŚB 10.27.7
ये मद्विधाज्ञा जगदीशमानिन-स्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् । हित्वार्यमार्गं प्रभजन्त्यपस्मयाईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥
ŚB 10.27.8
स त्वं ममैश्वर्यमदप्लुतस्यकृतागसस्तेऽविदुष: प्रभावम् । क्षन्तुं प्रभोऽथार्हसि मूढचेतसोमैवं पुनर्भून्मतिरीश मेऽसती ॥ ८ ॥
ŚB 10.27.9
तवावतारोऽयमधोक्षजेहभुवो भराणामुरुभारजन्मनाम् । चमूपतीनामभवाय देवभवाय युष्मच्चरणानुवर्तिनाम् ॥ ९ ॥
ŚB 10.27.10
नमस्तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नम: ॥ १० ॥
ŚB 10.27.11
स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नम: ॥ ११ ॥
ŚB 10.27.12
मयेदं भगवन् गोष्ठनाशायासारवायुभि: । चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२ ॥
ŚB 10.27.13
त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यम: । ईश्वरं गुरुमात्मानं त्वामहं शरणं गत: ॥ १३ ॥
ŚB 10.27.14
श्रीशुक उवाच एवं सङ्कीर्तित: कृष्णो मघोना भगवानमुम् । मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ॥ १४ ॥
ŚB 10.27.15
श्रीभगवानुवाच मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्र श्रिया भृशम् ॥ १५ ॥
ŚB 10.27.16
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्‌भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६ ॥
ŚB 10.27.17
गम्यतां शक्र भद्रं व: क्रियतां मेऽनुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर्व: स्तम्भवर्जितै: ॥ १७ ॥
ŚB 10.27.18
अथाह सुरभि: कृष्णमभिवन्द्यमनस्विनी । स्वसन्तानैरुपामन्‍त्र्य गोपरूपिणमीश्वरम् ॥ १८ ॥
ŚB 10.27.19
सुरभिरुवाच कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव । भवता लोकनाथेन सनाथा वयमच्युत ॥ १९ ॥
ŚB 10.27.20
त्वं न: परमकं दैवं त्वं न इन्द्रो जगत्पते । भवाय भव गोविप्रदेवानां ये च साधव: ॥ २० ॥