Search
Jump to facet filters
ŚB 10.35.1
श्रीशुक उवाच गोप्य: कृष्णे वनं याते तमनुद्रुतचेतस: । कृष्णलीला: प्रगायन्त्यो निन्युर्दु:खेन वासरान् ॥ १ ॥
ŚB 10.35.2-3
श्रीगोप्य ऊचु: वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्द: ॥ २ ॥ व्योमयानवनिता: सह सिद्धै- र्विस्मितास्तदुपधार्य सलज्जा: । काममार्गणसमर्पितचित्ता: कश्मलं ययुरपस्मृतनीव्य: ॥ ३ ॥
ŚB 10.35.4-5
हन्त चित्रमबला: शृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणु: ॥ ४ ॥ वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
ŚB 10.35.6-7
बर्हिणस्तबकधातुपलाशै- र्बद्धमल्लपरिबर्हविडम्ब: । कर्हिचित् सबल आलि स गोपै- र्गा: समाह्वयति यत्र मुकुन्द: ॥ ६ ॥ तर्हि भग्नगतय: सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्या: प्रेमवेपितभुजा: स्तिमिताप: ॥ ७ ॥
ŚB 10.35.8-11
अनुचरै: समनुवर्णितवीर्य आदिपूरुष इवाचलभूति: । वनचरो गिरितटेषु चरन्ती- र्वेणुनाह्वयति गा: स यदा हि ॥ ८ ॥ वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्या: । प्रणतभारविटपा मधुधारा: प्रेमहृष्टतनवो ववृषु: …
ŚB 10.35.12-13
सहबल: स्रगवतंसविलास: सानुषु क्षितिभृतो व्रजदेव्य: । हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥ महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघ: । सुहृदमभ्यवर्षत् सुमनोभि- श्छायया च विदधत् प्रतपत्रम् ॥ १३ …
ŚB 10.35.14-15
विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षा: । तव सुत: सति यदाधरबिम्बे दत्तवेणुरनयत् स्वरजाती: ॥ १४ ॥ सवनशस्तदुपधार्य सुरेशा: शक्रशर्वपरमेष्ठिपुरोगा: । कवय आनतकन्धरचित्ता: कश्मलं ययुरनिश्चिततत्त्वा: ॥ १५ ॥
ŚB 10.35.16-17
निजपदाब्जदलैर्ध्वजवज्र- नीरजाङ्कुशविचित्रललामै: । व्रजभुव: शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणु: ॥ १६ ॥ व्रजति तेन वयं सविलास- वीक्षणार्पितमनोभववेगा: । कुजगतिं गमिता न विदाम: कश्मलेन कवरं वसनं वा ॥ १७ ॥
ŚB 10.35.18-19
मणिधर: क्वचिदागणयन् गा मालया दयितगन्धतुलस्या: । प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥ क्वणितवेणुरववञ्चितचित्ता: कृष्णमन्वसत कृष्णगृहिण्य: । गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशा: ॥ १९ ॥
ŚB 10.35.20-21
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सो नर्मद: प्रणयिणां विजहार ॥ २० ॥ मन्दवायुरुपवात्यनुकूलं मानयन् मलयजस्पर्शेन । वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभि: परिवव्रु: ॥ २१ ॥
ŚB 10.35.22-23
वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरण: पथि वृद्धै: । कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्ति: ॥ २२ ॥ उत्सवं श्रमरुचापि दृशीना- मुन्नयन् खुररजश्छुरितस्रक् । दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराज: ॥ २३ ॥
ŚB 10.35.24-25
मदविघूर्णितलोचन ईषत्- मानद: स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥ यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥
ŚB 10.35.26
श्रीशुक उवाच एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायती: । रेमिरेऽह:सु तच्चित्तास्तन्मनस्का महोदया: ॥ २६ ॥