Search
Jump to facet filters
ŚB 10.36.1
श्री बादरायणिरुवाच अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुर: । महींमहाककुत्काय: कम्पयन्खुरविक्षताम् ॥ १ ॥
ŚB 10.36.2
रम्भमाण: खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् । किञ्चित्किञ्चिच्छकृन् मुञ्चन्मूत्रयन्स्तब्धलोचन: ॥ २ ॥
ŚB 10.36.3-4
यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् । पतन्त्यकालतो गर्भा: स्रवन्ति स्म भयेन वै ॥ ३ ॥ निर्विशन्ति घना यस्य ककुद्यचलशङ्कया । तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो …
ŚB 10.36.5
पशवो दुद्रुवुर्भीता राजन्सन्त्यज्य गोकुलम् । कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययु: ॥ ५ ॥
ŚB 10.36.6
भगवानपि तद् वीक्ष्य गोकुलं भयविद्रुतम् । मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ॥ ६ ॥
ŚB 10.36.7
गोपालै: पशुभिर्मन्द त्रासितै: किमसत्तम । मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् ॥ ७ ॥
ŚB 10.36.8
इत्यास्फोत्याच्युतोऽरिष्टं तलशब्देन कोपयन् । सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरि: ॥ ८ ॥
ŚB 10.36.9
सोऽप्येवं कोपितोऽरिष्ट: खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघ: क्रुद्ध: कृष्णमुपाद्रवत् ॥ ९ ॥
ŚB 10.36.10
अग्रन्यस्तविषाणाग्र: स्तब्धासृग्लोचनोऽच्युतम् । कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥
ŚB 10.36.11
गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि स: । प्रत्यपोवाह भगवान् गज: प्रतिगजं यथा ॥ ११ ॥
ŚB 10.36.12
सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो नि:श्वसन्क्रोधमूर्च्छित: ॥ १२ ॥
ŚB 10.36.13
तमापतन्तं स निगृह्य शृङ्गयो: पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथार्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥
ŚB 10.36.14
असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षण: । जगाम कृच्छ्रं निऋर्तेरथ क्षयं पुष्पै: किरन्तो हरिमीडिरे सुरा: ॥ १४ ॥
ŚB 10.36.15
एवं कुकुद्मिनं हत्वा स्तूयमान: द्विजातिभि: । विवेश गोष्ठं सबलो गोपीनां नयनोत्सव: ॥ १५ ॥
ŚB 10.36.16
अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शन: ॥ १६ ॥
ŚB 10.36.17
यशोदाया: सुतां कन्यां देवक्या: कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता । न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हता: ॥ …
ŚB 10.36.18
निशम्य तद्भोजपति: कोपात्प्रचलितेन्द्रिय: । निशातमसिमादत्त वसुदेवजिघांसया ॥ १८ ॥
ŚB 10.36.19
निवारितो नारदेन तत्सुतौ मृत्युमात्मन: । ज्ञात्वा लोहमयै: पाशैर्बबन्ध सह भार्यया ॥ १९ ॥
ŚB 10.36.20
प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् । प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥
ŚB 10.36.21
ततो मुष्टिकचाणूरशलतोशलकादिकान् । अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ॥ २१ ॥
Hierarchy
Text 1
(1)
Text 2
(1)
Texts 3-4
(1)
Text 5
(1)
Text 6
(1)
Text 7
(1)
Text 8
(1)
Text 9
(1)
Text 10
(1)
Text 11
(1)
Text 12
(1)
Text 13
(1)
Text 14
(1)
Text 15
(1)
Text 16
(1)
Text 17
(1)
Text 18
(1)
Text 19
(1)
Text 20
(1)
Text 21
(1)
Texts 22-23
(1)
Text 24
(1)
Text 25
(1)
Text 26
(1)
Text 27
(1)
Text 28
(1)
Text 29
(1)
Text 30
(1)
Text 31
(1)
Text 32
(1)
Text 33
(1)
Text 34
(1)
Text 35
(1)
Text 36
(1)
Text 37
(1)
Text 38
(1)
Text 39
(1)
Text 40
(1)