Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 10.39.4
श्रीभगवानुवाच तात सौम्यागत: कच्च्त्स्विगतं भद्रमस्तु व: । अपि स्वज्ञातिबन्धूनामनमीवमनामयम् ॥ ४ ॥
ŚB 10.39.5
किं नु न: कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्नाङ्ग स्वानां नस्तत्प्रजासु च ॥ ५ ॥
ŚB 10.39.6
अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययो: । यद्धेतो: पुत्रमरणं यद्धेतोर्बन्धनं तयो: ॥ ६ ॥
ŚB 10.39.7
दिष्ट्याद्य दर्शनं स्वानां मह्यं व: सौम्य काङ्‌क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥
ŚB 10.39.8
श्रीशुक उवाच पृष्टो भगवता सर्वं वर्णयामास माधव: । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥
ŚB 10.39.9
यत्सन्देशो यदर्थं वा दूत: सम्प्रेषित: स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभे: ॥ ९ ॥
ŚB 10.39.10
श्रुत्वाक्रूरवच: कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतु: ॥ १० ॥
ŚB 10.39.11-12
गोपान् समादिशत्सोऽपि गृह्यतां सर्वगोरस: । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११ ॥ यास्याम: श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्याम: सुमहत्पर्व यान्ति …
ŚB 10.39.13
गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३ ॥
ŚB 10.39.14
काश्चित्तत्कृतहृत्तापश्वासम्‍लानमुखश्रिय: । स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ॥ १४ ॥
ŚB 10.39.15
अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तय: । नाभ्यजानन्निमं लोकमात्मलोकं गता इव ॥ १५ ॥
ŚB 10.39.16
स्मरन्त्यश्चापरा: शौरेरनुरागस्मितेरिता: । हृदिस्पृशश्चित्रपदा गिर: सम्मुमुहु: स्त्रिय: ॥ १६ ॥
ŚB 10.39.17-18
गतिं सुललितां चेष्टां स्‍निग्धहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७ ॥ चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातरा: । समेता: सङ्घश: प्रोचुरश्रुमुख्योऽच्युताशया: ॥ १८ ॥
ŚB 10.39.19
श्रीगोप्य ऊचु: अहो विधातस्तव न क्‍वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिन: । तांश्चाकृतार्थान् वियुनङ्‌क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥
ŚB 10.39.20
यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २० ॥
ŚB 10.39.21
क्रूरस्त्वमक्रूरसमाख्यया स्म न- श्चक्षुर्हि दत्तं हरसे बताज्ञवत् । येनैकदेशेऽखिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुद्विष: ॥ २१ ॥
ŚB 10.39.22
न नन्दसूनु: क्षणभङ्गसौहृद: समीक्षते न: स्वकृतातुरा बत । विहाय गेहान् स्वजनान् सुतान्पतीं- स्तद्दास्यमद्धोपगता नवप्रिय: ॥ २२ ॥
ŚB 10.39.23
सुखं प्रभाता रजनीयमाशिष: सत्या बभूवु: पुरयोषितां ध्रुवम् । या: संप्रविष्टस्य मुखं व्रजस्पते: पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥ २३ ॥
ŚB 10.39.24
तासां मुकुन्दो मधुमञ्जुभाषितै- र्गृहीतचित्त: परवान् मनस्व्यपि । कथं पुनर्न: प्रतियास्यतेऽबला ग्राम्या: सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४ ॥
ŚB 10.39.25
अद्य ध्रुवं तत्र द‍ृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम् । महोत्सव: श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५ ॥