Search
Jump to facet filters
ŚB 10.68.11
तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् । एकस्तु सारथिं जघ्ने चिच्छेदान्य: शरासनम् ॥ ११ ॥
ŚB 10.68.12
तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि । कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १२ ॥
ŚB 10.68.13
तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यव: । कुरून् प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिता: ॥ १३ ॥
ŚB 10.68.14-15
सान्त्वयित्वा तु तान् राम: सन्नद्धान् वृष्णिपुङ्गवान् । नैच्छत् कुरूणां वृष्णीनां कलिं कलिमलापह: ॥ १४ ॥ जगाम हास्तिनपुरं रथेनादित्यवर्चसा । ब्राह्मणै: कुलवृद्धैश्च वृतश्चन्द्र इव …
ŚB 10.68.16
गत्वा गजाह्वयं रामो बाह्योपवनमास्थित: । उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥ १६ ॥
ŚB 10.68.17
सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् । दुर्योधनं च विधिवद् राममागतमब्रवीत् ॥ १७ ॥
ŚB 10.68.18
तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् । तमर्चयित्वाभिययु: सर्वे मङ्गलपाणय: ॥ १८ ॥
ŚB 10.68.19
तं सङ्गय यथान्यायं गामर्घ्यं च न्यवेदयन् । तेषां ये तत्प्रभावज्ञा: प्रणेमु: शिरसा बलम् ॥ १९ ॥
ŚB 10.68.20
बन्धून् कुशलिन: श्रुत्वा पृष्ट्वा शिवमनामयम् । परस्परमथो रामो बभाषेऽविक्लवं वच: ॥ २० ॥
ŚB 10.68.21
उग्रसेन: क्षितेशेशो यद् व आज्ञापयत् प्रभु: । तदव्यग्रधिय: श्रुत्वा कुरुध्वमविलम्बितम् ॥ २१ ॥
ŚB 10.68.22
यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् । अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥ २२ ॥
ŚB 10.68.23
वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वच: । कुरवो बलदेवस्य निशम्योचु: प्रकोपिता: ॥ २३ ॥
ŚB 10.68.24
अहो महच्चित्रमिदं कालगत्या दुरत्यया । आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम् ॥ २४ ॥
ŚB 10.68.25
एते यौनेन सम्बद्धा: सहशय्यासनाशना: । वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासना: ॥ २५ ॥
ŚB 10.68.26
चामरव्यजने शङ्खमातपत्रं च पाण्डुरम् । किरीटमासनं शय्यां भुञ्जतेऽस्मदुपेक्षया ॥ २६ ॥
ŚB 10.68.27
अलं यदूनां नरदेवलाञ्छनै- र्दातु: प्रतीपै: फणिनामिवामृतम् । येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७ ॥
ŚB 10.68.28
कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभि: । अदत्तमवरुन्धीत सिंहग्रस्तमिवोरण: ॥ २८ ॥
ŚB 10.68.29
श्रीबादरायणिरुवाच जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ । आश्राव्य रामं दुर्वाच्यमसभ्या: पुरमाविशन् ॥ २९ ॥
ŚB 10.68.30
दृष्ट्वा कुरूणां दौ:शील्यं श्रुत्वावाच्यानि चाच्युत: । अवोचत् कोपसंरब्धो दुष्प्रेक्ष्य: प्रहसन् मुहु: ॥ ३० ॥
ŚB 10.68.31
नूनं नानामदोन्नद्धा: शान्तिं नेच्छन्त्यसाधव: । तेषां हि प्रशमो दण्ड: पशूनां लगुडो यथा ॥ ३१ ॥
Hierarchy
Text 1
(1)
Text 2
(1)
Text 3
(1)
Text 4
(1)
Text 5
(1)
Text 6
(1)
Text 7
(1)
Text 8
(1)
Texts 9-10
(1)
Text 11
(1)
Text 12
(1)
Text 13
(1)
Texts 14-15
(1)
Text 16
(1)
Text 17
(1)
Text 18
(1)
Text 19
(1)
Text 20
(1)
Text 21
(1)
Text 22
(1)
Text 23
(1)
Text 24
(1)
Text 25
(1)
Text 26
(1)
Text 27
(1)
Text 28
(1)
Text 29
(1)
Text 30
(1)
Text 31
(1)
Texts 32-33
(1)
Text 34
(1)
Text 35
(1)
Text 36
(1)
Text 37
(1)
Text 38
(1)
Text 39
(1)
Text 40
(1)
Text 41
(1)
Texts 42-43
(1)
Text 44
(1)
Text 45
(1)
Text 46
(1)
Text 47
(1)
Text 48
(1)
Text 49
(1)
Texts 50-51
(1)
Text 52
(1)
Text 53
(1)
Text 54
(1)