Search
Jump to facet filters
ŚB 11.2.1
श्रीशुक उवाच गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालस: ॥ १ ॥
ŚB 11.2.2
को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजेत् सर्वतोमृत्युरुपास्यममरोत्तमै: ॥ २ ॥
ŚB 11.2.3
तमेकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३ ॥
ŚB 11.2.4
श्रीवसुदेव उवाच भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ ४ ॥
ŚB 11.2.5
भूतानां देवचरितं दु:खाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥
ŚB 11.2.6
भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवा: साधवो दीनवत्सला: ॥ ६ ॥
ŚB 11.2.7
ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव । यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात् ॥ ७ ॥
ŚB 11.2.8
अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥
ŚB 11.2.9
यथा विचित्रव्यसनाद् भवद्भिर्विश्वतोभयात् । मुच्येम ह्यञ्जसैवाद्धा तथा न: शाधि सुव्रत ॥ ९ ॥
ŚB 11.2.10
श्रीशुक उवाच राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता । प्रीतस्तमाह देवर्षिर्हरे: संस्मारितो गुणै: ॥ १० ॥
ŚB 11.2.11
श्रीनारद उवाच सम्यगेतद् व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् ॥ ११ ॥
ŚB 11.2.12
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदित: । सद्य: पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि ॥ १२ ॥
ŚB 11.2.13
त्वया परमकल्याण: पुण्यश्रवणकीर्तन: । स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥
ŚB 11.2.14
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मन: ॥ १४ ॥
ŚB 11.2.15
प्रियव्रतो नाम सुतो मनो: स्वायम्भुवस्य य: । तस्याग्नीध्रस्ततो नाभिऋर्षभस्तत्सुत: स्मृत: ॥ १५ ॥
ŚB 11.2.16
तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥
ŚB 11.2.17
तेषां वै भरतो ज्येष्ठो नारायणपरायण: । विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्भुतम् ॥ १७ ॥
ŚB 11.2.18
स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् । उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभि: ॥ १८ ॥
ŚB 11.2.19
तेषां नव नवद्वीपपतयोऽस्य समन्तत: । कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातय: ॥ १९ ॥
ŚB 11.2.20-21
नवाभवन् महाभागा मुनयो ह्यर्थशंसिन: । श्रमणा वातरसना आत्मविद्याविशारदा: ॥ २० ॥ कविर्हविरन्तरीक्ष: प्रबुद्ध: पिप्पलायन: । आविर्होत्रोऽथ द्रुमिलश्चमस: करभाजन: ॥ २१ ॥
Hierarchy
Text 1
(1)
Text 2
(1)
Text 3
(1)
Text 4
(1)
Text 5
(1)
Text 6
(1)
Text 7
(1)
Text 8
(1)
Text 9
(1)
Text 10
(1)
Text 11
(1)
Text 12
(1)
Text 13
(1)
Text 14
(1)
Text 15
(1)
Text 16
(1)
Text 17
(1)
Text 18
(1)
Text 19
(1)
Texts 20-21
(1)
Text 22
(1)
Text 23
(1)
Text 24
(1)
Text 25
(1)
Text 26
(1)
Text 27
(1)
Text 28
(1)
Text 29
(1)
Text 30
(1)
Text 31
(1)
Text 32
(1)
Text 33
(1)
Text 34
(1)
Text 35
(1)
Text 36
(1)
Text 37
(1)
Text 38
(1)
Text 39
(1)
Text 40
(1)
Text 41
(1)
Text 42
(1)
Text 43
(1)
Text 44
(1)
Text 45
(1)
Text 46
(1)
Text 47
(1)
Text 48
(1)
Text 49
(1)
Text 50
(1)
Text 51
(1)
Text 52
(1)
Text 53
(1)
Text 54
(1)
Text 55
(1)