Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 11.21.35
वेदा ब्रह्मात्मविषयास्‍त्रिकाण्डविषया इमे । परोक्षवादा ऋषय: परोक्षं मम च प्रियम् ॥ ३५ ॥
ŚB 11.21.36
शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६ ॥
ŚB 11.21.37
मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना । भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७ ॥
ŚB 11.21.38-40
यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् । आकाशाद् घोषवान् प्राणो मनसा स्पर्शरूपिणा ॥ ३८ ॥ छन्दोमयोऽमृतमय: सहस्रपदवीं प्रभु: । ओङ्काराद् व्यञ्जितस्पर्शस्वरोष्मान्त स्थभूषिताम् ॥ ३९ ॥ विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरै: । अनन्तपारां …
ŚB 11.21.41
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्‌क्तिरेव च । त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्‍ट्यतिजगद् विराट् ॥ ४१ ॥
ŚB 11.21.42
किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ ४२ ॥
ŚB 11.21.43
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् । एतावान् सर्ववेदार्थ: शब्द आस्थाय मां भिदाम् । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ ४३ ॥
ŚB 11.21.1
श्रीभगवानुवाच य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान् कामांश्चलै: प्राणैर्जुषन्त: संसरन्ति ते ॥ १ ॥
ŚB 11.21.2
स्वे स्वेऽधिकारे या निष्ठा स गुण: परिकीर्तित: । विपर्ययस्तु दोष: स्यादुभयोरेष निश्चय: ॥ २ ॥
ŚB 11.21.3
शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ । धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ ॥ ३ ॥
ŚB 11.21.4
दर्शितोऽयं मयाचारो धर्ममुद्वहतां धुरम् ॥ ४ ॥
ŚB 11.21.5
भूम्यम्ब्वग्‍न्यनिलाकाशा भूतानां पञ्चधातव: । आब्रह्मस्थावरादीनां शारीरा आत्मसंयुता: ॥ ५ ॥
ŚB 11.21.6
वेदेन नामरूपाणि विषमाणि समेष्वपि । धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६ ॥
ŚB 11.21.7
देशकालादिभावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७ ॥
ŚB 11.21.8
अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत् । कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणम् ॥ ८ ॥
ŚB 11.21.9
कर्मण्यो गुणवान् कालो द्रव्यत: स्वत एव वा । यतो निवर्तते कर्म स दोषोऽकर्मक: स्मृत: ॥ ९ ॥
ŚB 11.21.10
द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च । संस्कारेणाथ कालेन महत्वाल्पतयाथवा ॥ १० ॥
ŚB 11.21.11
शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने । अघं कुर्वन्ति हि यथा देशावस्थानुसारत: ॥ ११ ॥
ŚB 11.21.12
धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् । कालवाय्वग्निमृत्तोयै: पार्थिवानां युतायुतै: ॥ १२ ॥
ŚB 11.21.13
अमेध्यलिप्तं यद् येन गन्धलेपं व्यपोहति । भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते ॥ १३ ॥