Search
Jump to facet filters
ŚB 11.25.1
श्रीभगवानुवाच गुणानामसम्मिश्राणां पुमान् येन यथा भवेत् । तन्मे पुरुषवर्येदमुपधारय शंसत: ॥ १ ॥
ŚB 11.25.2-5
शमो दमस्तितिक्षेक्षा तप: सत्यं दया स्मृति: । तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादि: स्वनिर्वृति: ॥ २ ॥ काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् । मदोत्साहो यश:प्रीतिर्हास्यं …
ŚB 11.25.6
सन्निपातस्त्वहमिति ममेत्युद्धव या मति: । व्यवहार: सन्निपातो मनोमात्रेन्द्रियासुभि: ॥ ६ ॥
ŚB 11.25.7
धर्मे चार्थे च कामे च यदासौ परिनिष्ठित: । गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावह: ॥ ७ ॥
ŚB 11.25.8
प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे । स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥ ८ ॥
ŚB 11.25.9
पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभि: । कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ॥ ९ ॥
ŚB 11.25.10
यदा भजति मां भक्त्या निरपेक्ष: स्वकर्मभि: । तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियमेव वा ॥ १० ॥
ŚB 11.25.11
यदा आशिष आशास्य मां भजेत स्वकर्मभि: । तं रज:प्रकृतिं विद्यात् हिंसामाशास्य तामसम् ॥ ११ ॥
ŚB 11.25.12
सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे । चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते ॥ १२ ॥
ŚB 11.25.13
यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञानादिभि: पुमान् ॥ १३ ॥
ŚB 11.25.14
यदा जयेत्तम: सत्त्वं रज: सङ्गं भिदा चलम् । तदा दु:खेन युज्येत कर्मणा यशसा श्रिया ॥ १४ ॥
ŚB 11.25.15
यदा जयेद् रज: सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रयाहिंसयाशया ॥ १५ ॥
ŚB 11.25.16
यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृति: । देहेऽभयं मनोऽसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ १६ ॥
ŚB 11.25.17
विकुर्वन् क्रियया चाधीरनिवृत्तिश्च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय ॥ १७ ॥
ŚB 11.25.18
सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् । मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय ॥ १८ ॥
ŚB 11.25.19
एधमाने गुणे सत्त्वे देवानां बलमेधते । असुराणां च रजसि तमस्युद्धव रक्षसाम् ॥ १९ ॥
ŚB 11.25.20
सत्त्वाज्जागरणं विद्याद् रजसा स्वप्नमादिशेत् । प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् ॥ २० ॥
ŚB 11.25.21
उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जना: । तमसाधोऽध आमुख्याद् रजसान्तरचारिण: ॥ २१ ॥
ŚB 11.25.22
सत्त्वे प्रलीना: स्वर्यान्ति नरलोकं रजोलया: । तमोलयास्तु निरयं यान्ति मामेव निर्गुणा: ॥ २२ ॥
ŚB 11.25.23
मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३ ॥
Hierarchy
Text 1
(1)
Texts 2-5
(1)
Text 6
(1)
Text 7
(1)
Text 8
(1)
Text 9
(1)
Text 10
(1)
Text 11
(1)
Text 12
(1)
Text 13
(1)
Text 14
(1)
Text 15
(1)
Text 16
(1)
Text 17
(1)
Text 18
(1)
Text 19
(1)
Text 20
(1)
Text 21
(1)
Text 22
(1)
Text 23
(1)
Text 24
(1)
Text 25
(1)
Text 26
(1)
Text 27
(1)
Text 28
(1)
Text 29
(1)
Text 30
(1)
Text 31
(1)
Text 32
(1)
Text 33
(1)
Text 34
(1)
Text 35
(1)
Text 36
(1)