Search
Jump to facet filters
ŚB 11.26.23
अदृष्टादश्रुताद् भावान्न भाव उपजायते । असम्प्रयुञ्जत: प्राणान् शाम्यति स्तिमितं मन: ॥ २३ ॥
ŚB 11.26.24
तस्मात् सङ्गो न कर्तव्य: स्त्रीषु स्त्रैणेषु चेन्द्रियै: । विदुषां चाप्यविस्रब्ध: षड्वर्ग: किमु मादृशाम् ॥ २४ ॥
ŚB 11.26.25
श्रीभगवानुवाच एवं प्रगायन् नृपदेवदेव: स उर्वशीलोकमथो विहाय । आत्मानमात्मन्यवगम्य मां वै उपारमज्ज्ञानविधूतमोह: ॥ २५ ॥
ŚB 11.26.26
ततो दु:सङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभि: ॥ २६ ॥
ŚB 11.26.27
सन्तोऽनपेक्षा मच्चित्ता: प्रशान्ता: समदर्शिन: । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहा: ॥ २७ ॥
ŚB 11.26.28
तेषु नित्यं महाभाग महाभागेषु मत्कथा: । सम्भवन्ति हि ता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥
ŚB 11.26.29
ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृता: । मत्परा: श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥
ŚB 11.26.30
भक्तिं लब्धवत: साधो: किमन्यदवशिष्यते । मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥
ŚB 11.26.31
यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ ॥
ŚB 11.26.32
निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् । सन्तो ब्रह्मविद: शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥
ŚB 11.26.33
अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् । धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ ॥
ŚB 11.26.34
सन्तो दिशन्ति चक्षूंषि बहिरर्क: समुत्थित: । देवता बान्धवा: सन्त: सन्त आत्माहमेव च ॥ ३४ ॥
ŚB 11.26.35
वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिष्पृह: । मुक्तसङ्गो महीमेतामात्मारामश्चचार ह ॥ ३५ ॥
ŚB 11.26.1
श्रीभगवानुवाच मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थित: । आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १ ॥
ŚB 11.26.2
गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुत: । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणै: ॥ २ ॥
ŚB 11.26.3
सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् । तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ॥
ŚB 11.26.4
ऐल: सम्राडिमां गाथामगायत बृहच्छ्रवा: । उर्वशीविरहान् मुह्यन् निर्विण्ण: शोकसंयमे ॥ ४ ॥
ŚB 11.26.5
त्यक्त्वात्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृप: । विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लव: ॥ ५ ॥
ŚB 11.26.6
कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनी: । न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतन: ॥ ६ ॥
ŚB 11.26.7
ऐल उवाच अहो मे मोहविस्तार: कामकश्मलचेतस: । देव्या गृहीतकण्ठस्य नायु:खण्डा इमे स्मृता: ॥ ७ ॥
Hierarchy
Text 1
(1)
Text 2
(1)
Text 3
(1)
Text 4
(1)
Text 5
(1)
Text 6
(1)
Text 7
(1)
Text 8
(1)
Text 9
(1)
Text 10
(1)
Text 11
(1)
Text 12
(1)
Text 13
(1)
Text 14
(1)
Text 15
(1)
Text 16
(1)
Text 17
(1)
Text 18
(1)
Texts 19-20
(1)
Text 21
(1)
Text 22
(1)
Text 23
(1)
Text 24
(1)
Text 25
(1)
Text 26
(1)
Text 27
(1)
Text 28
(1)
Text 29
(1)
Text 30
(1)
Text 31
(1)
Text 32
(1)
Text 33
(1)
Text 34
(1)
Text 35
(1)