Search
Jump to facet filters
ŚB 11.6.8
त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थ: । नैतैर्भवानजित कर्मभिरज्यते वै यत् स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्य: ॥ ८ ॥
ŚB 11.6.9
शुद्धिर्नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतप:क्रियाभि: । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध- सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९ ॥
ŚB 11.6.10
स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतु: क्षेमाय यो मुनिभिरार्द्रहृदोह्यमान: । य: सात्वतै: समविभूतय आत्मवद्भि- र्व्यूहेऽर्चित: सवनश: स्वरतिक्रमाय ॥ १० ॥
ŚB 11.6.11
यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां जिज्ञासुभि: परमभागवतै: परीष्ट: ॥ ११ ॥
ŚB 11.6.12
पर्युष्टया तव विभो वनमालयेयं संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्री: । य: सुप्रणीतममुयार्हणमाददन्नो भूयात् सदाङ्घ्रिरशुभाशयधूमकेतु: ॥ १२ ॥
ŚB 11.6.13
केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको यस्ते भयाभयकरोऽसुरदेवचम्वो: । स्वर्गाय साधुषु खलेष्वितराय भूमन् पाद: पुनातु भगवन् भजतामघं न: ॥ १३ ॥
ŚB 11.6.14
नस्योतगाव इव यस्य वशे भवन्ति ब्रह्मादयस्तनुभृतो मिथुरर्द्यमाना: । कालस्य ते प्रकृतिपूरुषयो: परस्य शं नस्तनोतु चरण: पुरुषोत्तमस्य ॥ १४ ॥
ŚB 11.6.15
अस्यासि हेतुरुदयस्थितिसंयमाना- मव्यक्तजीवमहतामपि कालमाहु: । सोऽयं त्रिणाभिरखिलापचये प्रवृत्त: कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥
ŚB 11.6.16
त्वत्त: पुमान् समधिगम्य ययास्य वीर्यं धत्ते महान्तमिव गर्भममोघवीर्य: । सोऽयं तयानुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥
ŚB 11.6.17
तत्तस्थूषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वत: परिहृतादपि बिभ्यति स्म ॥ १७ ॥
ŚB 11.6.18
स्मायावलोकलवदर्शितभावहारि- भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डै: । पत्न्यस्तु षोडशसहस्रमनङ्गबाणै- र्यस्येन्द्रियं विमथितुं करणैर्न विभ्व्य: ॥ १८ ॥
ŚB 11.6.19
विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्या: पादावनेजसरित: शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १९ ॥
ŚB 11.6.20
श्रीबादरायणिरुवाच इत्यभिष्टूय विबुधै: सेश: शतधृतिर्हरिम् । अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रित: ॥ २० ॥
ŚB 11.6.21
श्रीब्रह्मोवाच भूमेर्भारावताराय पुरा विज्ञापित: प्रभो । त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् ॥ २१ ॥
ŚB 11.6.22
धर्मश्च स्थापित: सत्सु सत्यसन्धेषु वै त्वया । कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ २२ ॥
ŚB 11.6.23
अवतीर्य यदोर्वंशे बिभ्रद् रूपमनुत्तमम् । कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथा: ॥ २३ ॥
ŚB 11.6.24
यानि ते चरितानीश मनुष्या: साधव: कलौ । शृण्वन्त: कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तम: ॥ २४ ॥
ŚB 11.6.25
यदुवंशेऽवतीर्णस्य भवत: पुरुषोत्तम । शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥
ŚB 11.6.26-27
नाधुना तेऽखिलाधार देवकार्यावशेषितम् । कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ २६ ॥ तत: स्वधाम परमं विशस्व यदि मन्यसे । सलोकाँल्लोकपालान् न: पाहि वैकुण्ठकिङ्करान् ॥ …
ŚB 11.6.28
श्रीभगवानुवाच अवधारितमेतन्मे यदात्थ विबुधेश्वर । कृतं व: कार्यमखिलं भूमेर्भारोऽवतारित: ॥ २८ ॥
Text Type
Purport
(1988)
Verse Text
(1627)
Devanagari
(1244)
Synonyms
(1244)
Translation
(1244)
Text
(155)
Title
(32)
Hierarchy
CHAPTER ONE
(20)
CHAPTER TWO
(54)
CHAPTER THREE
(52)
CHAPTER FOUR
(23)
CHAPTER FIVE
(49)
CHAPTER SIX
(44)
CHAPTER SEVEN
(72)
CHAPTER EIGHT
(43)
CHAPTER NINE
(32)
CHAPTER TEN
(32)
CHAPTER ELEVEN
(34)
CHAPTER TWELVE
(18)
CHAPTER THIRTEEN
(41)
CHAPTER FOURTEEN
(37)
CHAPTER FIFTEEN
(33)
CHAPTER SIXTEEN
(44)
CHAPTER SEVENTEEN
(54)
CHAPTER EIGHTEEN
(47)
CHAPTER NINETEEN
(27)
CHAPTER TWENTY
(35)
CHAPTER TWENTY-ONE
(39)
CHAPTER TWENTY-TWO
(56)
CHAPTER TWENTY-THREE
(59)
CHAPTER TWENTY-FOUR
(24)
CHAPTER TWENTY-FIVE
(33)
CHAPTER TWENTY-SIX
(34)
CHAPTER TWENTY-SEVEN
(48)
CHAPTER TWENTY-EIGHT
(43)
CHAPTER TWENTY-NINE
(45)
CHAPTER THIRTY
(46)
CHAPTER THIRTY-ONE
(26)