Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 12.4.1
श्रीशुक उवाच कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप । कथितो युगमानं च श‍ृणु कल्पलयावपि ॥ १ ॥
ŚB 12.4.2
चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते । स कल्पो यत्र मनवश्चतुर्दश विशाम्पते ॥ २ ॥
ŚB 12.4.3
तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता । त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ ३ ॥
ŚB 12.4.4
एष नैमित्तिक: प्रोक्त: प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभू: ॥ ४ ॥
ŚB 12.4.5
द्विपरार्धे त्वतिक्रान्ते ब्रह्मण: परमेष्ठिन: । तदा प्रकृतय: सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥
ŚB 12.4.6
एष प्राकृतिको राजन् प्रलयो यत्र लीयते । अण्डकोषस्तु सङ्घातो विघाट उपसादिते ॥ ६ ॥
ŚB 12.4.7
पर्जन्य: शतवर्षाणि भूमौ राजन् न वर्षति । तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणा: क्षुधार्दिता: । क्षयं यास्यन्ति शनकै: कालेनोपद्रुता: प्रजा: ॥ ७ ॥
ŚB 12.4.8
सामुद्रं दैहिकं भौमं रसं सांवर्तको रवि: । रश्मिभि: पिबते घोरै: सर्वं नैव विमुञ्चति ॥ ८ ॥
ŚB 12.4.9
तत: संवर्तको वह्नि: सङ्कर्षणमुखोत्थित: । दहत्यनिलवेगोत्थ: शून्यान् भूविवरानथ ॥ ९ ॥
ŚB 12.4.10
उपर्यध: समन्ताच्च शिखाभिर्वह्निसूर्ययो: । दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ॥ १० ॥
ŚB 12.4.11
तत: प्रचण्डपवनो वर्षाणामधिकं शतम् । पर: सांवर्तको वाति धूम्रं खं रजसावृतम् ॥ ११ ॥
ŚB 12.4.12
ततो मेघकुलान्यङ्ग चित्र वर्णान्यनेकश: । शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनै: ॥ १२ ॥
ŚB 12.4.13
तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३ ॥
ŚB 12.4.14
तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे । ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४ ॥
ŚB 12.4.15-19
अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसा: । ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥ लीयते चानिले तेजो वायो: खं ग्रसते गुणम् । स …
ŚB 12.4.20-21
न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेश: खलु लोककल्प: ॥ २० ॥ न स्वप्नजाग्रन्न …
ŚB 12.4.22
लय: प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा । शक्तय: सम्प्रलीयन्ते विवशा: कालविद्रुता: ॥ २२ ॥
ŚB 12.4.23
बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् । द‍ृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् ॥ २३ ॥
ŚB 12.4.24
दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग् भवेत् । एवं धी: खानि मात्राश्च न स्युरन्यतमाद‍ृतात् ॥ २४ ॥
ŚB 12.4.25
बुद्धेर्जागरणं स्वप्न: सुषुप्तिरिति चोच्यते । मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥