Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 12.8.1
श्रीशौनक उवाच सूत जीव चिरं साधो वद नो वदतां वर । तमस्यपारे भ्रमतां नृणां त्वं पारदर्शन: ॥ १ ॥
ŚB 12.8.2-5
आहुश्चिरायुषमृषिं मृकण्डतनयं जना: । य: कल्पान्ते ह्युर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥ स वा अस्मत्कुलोत्पन्न: कल्पेऽस्मिन् भार्गवर्षभ: । नैवाधुनापि भूतानां सम्प्लव: कोऽपि …
ŚB 12.8.6
सूत उवाच प्रश्न‍स्त्वया महर्षेऽयं कृतो लोकभ्रमापह: । नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥
ŚB 12.8.7-11
प्राप्तद्विजातिसंस्कारो मार्कण्डेय: पितु: क्रमात् । छन्दांस्यधीत्य धर्मेण तप:स्वाध्यायसंयुत: ॥ ७ ॥ बृहद्‌व्रतधर: शान्तो जटिलो वल्कलाम्बर: । बिभ्रत् कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥ कृष्णाजिनं …
ŚB 12.8.12
ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे । नृदेवपितृभूतानि तेनासन्नतिविस्मिता: ॥ १२ ॥
ŚB 12.8.13
इत्थं बृहद्‌व्रतधरस्तप:स्वाध्यायसंयमै: । दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥
ŚB 12.8.14
तस्यैवं युञ्जतश्चित्तं महायोगेन योगिन: । व्यतीयाय महान् कालो मन्वन्तरषडात्मक: ॥ १४ ॥
ŚB 12.8.15
एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे । तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥ १५ ॥
ŚB 12.8.16
गन्धर्वाप्सरस: कामं वसन्तमलयानिलौ । मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥
ŚB 12.8.17
ते वै तदाश्रमं जग्मुर्हिमाद्रे: पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥
ŚB 12.8.18-20
तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् । पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥ मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् । मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥ वायु: प्रविष्ट आदाय हिमनिर्झरशीकरान् । सुमनोभि: परिष्वक्तो ववावुत्तम्भयन् …
ŚB 12.8.21
उद्यच्चन्द्रनिशावक्त्र: प्रवालस्तबकालिभि: । गोपद्रुमलताजालैस्तत्रासीत् कुसुमाकर: ॥ २१ ॥
ŚB 12.8.22
अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकै: । अद‍ृश्यतात्तचापेषु: स्व:स्त्रीयूथपति: स्मर: ॥ २२ ॥
ŚB 12.8.23
हुत्वाग्निं समुपासीनं दद‍ृशु: शक्रकिङ्करा: । मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥
ŚB 12.8.24
ननृतुस्तस्य पुरत: स्त्रियोऽथो गायका जगु: । मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥
ŚB 12.8.25
सन्दधेऽस्त्रं स्वधनुषि काम: पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥
ŚB 12.8.26-27
क्रीडन्त्या: पुञ्जिकस्थल्या: कन्दुकै: स्तनगौरवात् । भृशमुद्विग्नमध्याया: केशविस्रंसितस्रज: ॥ २६ ॥ इतस्ततोभ्रमद्‌‌दृष्टेश्चलन्त्या अनुकन्दुकम् । वायुर्जहार तद्वास: सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥
ŚB 12.8.28
विससर्ज तदा बाणं मत्वा तं स्वजितं स्मर: । सर्वं तत्राभवन्मोघमनीशस्य यथोद्यम: ॥ २८ ॥
ŚB 12.8.29
त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने । दह्यमाना निववृतु: प्रबोध्याहिमिवार्भका: ॥ २९ ॥
ŚB 12.8.30
इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनि: । यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥