Search
Jump to facet filters
ŚB 12.2.39
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥
ŚB 12.2.40
राजन्नेते मया प्रोक्ता नरदेवास्तथापरे । भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गता: ॥ ४० ॥
ŚB 12.2.41
कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यत: ॥ ४१ ॥
ŚB 12.2.42
कथं सेयमखण्डा भू: पूर्वैर्मे पुरुषैर्धृता । मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ ४२ ॥
ŚB 12.2.43
तेजोऽबन्नमयं कायं गृहीत्वात्मतयाबुधा: । महीं ममतया चोभौ हित्वान्तेऽदर्शनं गता: ॥ ४३ ॥
ŚB 12.2.44
ये ये भूपतयो राजन् भुञ्जते भुवमोजसा । कालेन ते कृता: सर्वे कथामात्रा: कथासु च ॥ ४४ ॥
ŚB 12.3.1
श्री शुक उवाच: दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्यो: क्रीडनका नृपा: ॥ १ ॥
ŚB 12.3.2
काम एष नरेन्द्राणां मोघ: स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपा: ॥ २ ॥
ŚB 12.3.3-4
पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिण: । तत: सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥ एवं क्रमेण जेष्याम: पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ …
ŚB 12.3.5
समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥
ŚB 12.3.6
यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धय: ॥ ६ ॥
ŚB 12.3.7
मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रह: । जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७ ॥
ŚB 12.3.8
ममैवेयं मही कृत्स्ना न ते मूढेति वादिन: । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपा: ॥ ८ ॥
ŚB 12.3.9-13
श्रीशुक उवाच पृथु: पुरूरवा गाधिर्नहुषो भरतोऽर्जुन: । मान्धाता सगरो राम: खट्वाङ्गो धुन्धुहा रघु: ॥ ९ ॥ तृणबिन्दुर्ययातिश्च शर्याति: शन्तनुर्गय: । भगीरथ: कुवलयाश्व: ककुत्स्थो नैषधो …
ŚB 12.3.14
कथा इमास्ते कथिता महीयसां विताय लोकेषु यश: परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥
ŚB 12.3.15
यस्तूत्तम:श्लोकगुणानुवाद: सङ्गीयतेऽभीक्ष्णममङ्गलघ्न: । तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समान: ॥ १५ ॥
ŚB 12.3.16
श्रीराजोवाच केनोपायेन भगवन् कलेर्दोषान् कलौ जना: । विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६ ॥
ŚB 12.3.17
युगानि युगधर्मांश्च मानं प्रलयकल्पयो: । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मन: ॥ १७ ॥
ŚB 12.3.18
श्रीशुक उवाच कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत: । सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८ ॥
ŚB 12.3.19
सन्तुष्टा: करुणा मैत्रा: शान्ता दान्तास्तितिक्षव: । आत्मारामा: समदृश: प्रायश: श्रमणा जना: ॥ १९ ॥