Krishna.mobi - fast, clean Vedabase reading Library

Search

Jump to facet filters
ŚB 4.29.1
प्राचीनबर्हिरुवाच भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते । कवयस्तद्विजानन्ति न वयं कर्ममोहिता: ॥ १ ॥
ŚB 4.29.2
नारद उवाच पुरुषं पुरञ्जनं विद्याद्यद् व्यनक्त्यात्मन: पुरम् । एकद्वित्रिचतुष्पादं बहुपादमपादकम् ॥ २ ॥
ŚB 4.29.3
योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वर: । यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणै: ॥ ३ ॥
ŚB 4.29.4
यदा जिघृक्षन् पुरुष: कार्त्स्‍न्येन प्रकृतेर्गुणान् । नवद्वारं द्विहस्ताङ्‌घ्रि तत्रामनुत साध्विति ॥ ४ ॥
ŚB 4.29.5
बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् । यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥ ५ ॥
ŚB 4.29.6
सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् । सख्यस्तद्वृत्तय: प्राण: पञ्चवृत्तिर्यथोरग: ॥ ६ ॥
ŚB 4.29.7
बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् । पञ्चाला: पञ्च विषया यन्मध्ये नवखं पुरम् ॥ ७ ॥
ŚB 4.29.8
अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति । द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुत: ॥ ८ ॥
ŚB 4.29.9
अक्षिणी नासिके आस्यमिति पञ्चपुर: कृता: । दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत: । पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते ॥ ९ ॥
ŚB 4.29.10
खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वर: ॥ १० ॥
ŚB 4.29.11
नलिनी नालिनी नासे गन्ध: सौरभ उच्यते । घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रस: ॥ ११ ॥
ŚB 4.29.12
आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् । पितृहूर्दक्षिण: कर्ण उत्तरो देवहू: स्मृत: ॥ १२ ॥
ŚB 4.29.13
प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् । पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्‌व्रजेत् ॥ १३ ॥
ŚB 4.29.14
आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रति: । उपस्थो दुर्मद: प्रोक्तो निऋर्तिर्गुद उच्यते ॥ १४ ॥
ŚB 4.29.15
वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे श‍ृणु । हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५ ॥
ŚB 4.29.16
अन्त:पुरं च हृदयं विषूचिर्मन उच्यते । तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणै: ॥ १६ ॥
ŚB 4.29.17
यथा यथा विक्रियते गुणाक्तो विकरोति वा । तथा तथोपद्रष्टात्मा तद्वृत्तीरनुकार्यते ॥ १७ ॥
ŚB 4.29.18-20
देहो रथस्त्विन्द्रियाश्व: संवत्सररयोऽगति: । द्विकर्मचक्रस्त्रिगुणध्वज: पञ्चासुबन्धुर: ॥ १८ ॥ मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबर: । पञ्चेन्द्रियार्थप्रक्षेप: सप्तधातुवरूथक: ॥ १९ ॥ आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति । एकादशेन्द्रियचमू: पञ्चसूनाविनोदकृत् …
ŚB 4.29.21
संवत्सरश्चण्डवेग: कालो येनोपलक्षित: । तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रय: स्मृता: । हरन्त्यायु: परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१ ॥
ŚB 4.29.22
कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति । स्वसारं जगृहे मृत्यु: क्षयाय यवनेश्वर: ॥ २२ ॥